________________
प्राणायामविधिवर्णनम्
प्राणायामः
दशप्रणवगायत्री तथा कार्याखिलेष्वपि । कृत्येषु नित्यादिषु च प्राणायामो दिने दिने। तक्रमं चापि वक्ष्यामि सर्वानुष्ठानकारणम् । दशप्रणवगायत्रीत्रितयेन विधानतः॥ कर्तव्योरेचकः पूर्व तदनन्तरमेव वै । तदैव पूरकः कायः पुनश्च तदनन्तरम् ।। कुम्भकश्च प्रकर्तव्यः तद्विधानेन केवलम् । एवमेतत्त्रयं चेत्तु कृतं भवति तत्परम् ।। प्राणायामस्त्वेक एव एवं सर्वेषु कर्मसु । प्राणायामत्रयं कार्यमर्थचिन्तनपूर्वकम् ।। तावन्मत्रेण नितरां बहुजन्मकृतं तु यत् । आविलौघं तत्क्षणेन आगस्त्वेनश्च केवलम् ॥ अंहोविलयमायाति चित्तशुद्धिर्भवत्यपि । प्राणायामसमोधर्मो प्राणायामसमो जपः। प्राणायामसमो यज्ञःप्राणायामसमो दमः । प्राणायामसमं तीर्थं प्राणायामसमं तपः। प्रणायामसमं दानं प्राणायामसमं श्रुतम् । प्राणायामसमो नान्यः पावको जगतीतले ॥ एकवारकृतः सम्यक् प्राणायामोऽखिलप्रदः । सर्वसिद्धिकरः पुंसां बलिपुष्टिविवर्धनः॥ आधिव्याधिप्रशमको ह्यपमृत्युनिवारकः । अनुष्ठितः प्रतिदिनं कालमृत्युनिवारकः।। दीर्घायुष्यैकजनकः शतायुष्याधिकप्रदः। तस्माद्विचक्षणो नित्यं प्राणायामपरो भवेत् ॥ स तु वायोनिरोधैकभवितव्यः सदाकिल । तथा तदर्थानुसन्धानपूर्वकविधेयः (१) ॥
प्राणायामासमर्थस्य तन्मन्त्रमात्रपठनविधिः तथा कर्तुमशक्तश्चेत् ब्राह्मणोऽसौ निरन्तरम् ।
नासा प्रगृह्य तूष्णीकं मन्त्रमात्रमुदीरयेत् ॥ द्विषष्टिवर्णकं वर्णस्वरमात्रेण वा यदि । कृत्यकृत्यस्तावता वा त्रिवारोच्चारणात्परम् ।।
तस्मिन् मन्त्रे मन्त्रराजे प्रणवा दश हि स्मृताः।
चतुविंशतिसंख्याकाः गायत्रीयास्तु वर्णकाः ।। शुद्धव्याहृतिवर्णाश्च पञ्च तेषां पुनस्तथा । उच्चारणेऽपि पञ्चैव व्याहृतीयास्ततो दश॥ मापोज्यो दशकं चाथ महयं जनः सत्यं तपश्चेत्यष्टकं स्मृतम् ।।