________________
४१
गायत्रीमन्त्रवर्णनम् होतृप्रवरतो नित्यं नमस्कारादिकर्मसु । सर्वेष्वेवाविशेषेण वदेदध्वर्युमार्गतः ॥ प्रवरस्सः(स्) तत्र हि स्यादर्शादिष्वेव नान्यतः॥
प्रायश्चित्तार्क्ष्यः अर्ध्यत्रयात्परं कालद्वयस्यास्य व्यतिक्रमे । प्रायश्चित्तक्रियायै स्यादध्यमेकं पुनः स्मृतम् ।। केचिञ्चतुष्टयं चेति प्राहुरार्या मनीषिणः । अर्घ्यक्रियासु संत्यक्ता गायत्री या द्विजोत्तमैः तस्याः प्रत्युपसंहारहेतवे प्रतिलोमतः । जपेदेव विधानेन तत्प्रकारश्च वर्ण्यते ॥
गायत्रीवर्णसंख्यानिश्चयः . (त् )यादचोप्रनः यो यो धि हिमधी स्यवदे र्गोभ । यंगिरेवतुवित्सत ।। प्रतिलोमविधौ यणि वर्णभेदेन वर्णनम् । अनुलोमप्रकारे तु वर्णैक्येनैव चोचरेत् ॥ तस्मिन्नर्थं श्रुतिः सूत्रं प्रमाणं प्रतिपादितम् । सूत्रं तत्सवितुरिति पच्छोघर्चश इत्यपि ॥ प्रतीकग्रहणात्सूत्रकारेणात्र ततस्तथा । संहितायामाद्यकाण्डपञ्चमप्रश्नके यथा।पाठस्तथेत्येकवर्णस्ययस्य वर्णस्य वाक्यतः । व्यमेकमेव वर्णस्तु संख्यायां तवयं भवेत्
णयोःस्वीकृत्य भेदं वै संख्या सा कथिता परा।।
चतुर्विंशतिका सर्वैः त्रीणि सूर्ये यथा तथा ॥ गायत्रीमातृवाक्येषु पथि भादिषु केवलम् । तुरीयपादेन तथा तन्मत्रोद्धारणं भवेत् ।।
तान्मत्रानप्यद्य सम्यग्विशदाय निरूप्यते।।
चथिभतन्मुखतः प्रोक्त रोयोर्गो सा द्वितीयकम् ॥ रयोदेति तृतीयं स्या(त् )जनवत्तु तुरीयकम् । वक्ष्यप्रसे पञ्चमं स्यादेधीचोसेतिषष्ठकम् सामं तण्गिमदवयं हि यादो तथाष्टमम् । एतेषामपि सर्वेषां मूलभूता श्रुतिः शिवा ।। वर्गक्रमेककार्याय नान्यकार्यायते न हि । मन्त्रोद्धारः प्रभवति मन्त्रोद्धारेण तेन च ॥ प्रतिलोमानुलोभाभ्यां वाक्यानां न्यसनात्खलु । सर्वसिद्धिः प्रभवति तदेतद्गुरुवाक्यतः विशेयो हि भवेन्नूनं मन्त्र (स्तदु) पदेशतः। विप्रत्वसिद्धिर्भवति तत्परं तदुपासनात् ॥ तजपेन च तन्नित्यं विप्रत्वमतिदुर्लभम् । अतितीक्ष्णतरं स्याद्धि प्रतिनित्यं शनैः शनैः