SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् । तदोषपरिहाराय कुर्याद्भत्या प्रदक्षिणम् ॥ असावादित्यो ब्रह्मेति ब्रह्म ध्यायेत्समाहितः । तद्ब्रह्मध्यानमेव स्यात्संध्येति ब्रह्मवादिभिः॥ नित्यं सम्यक् कृतं ध्यानं वारत्रयमतीव च। ब्राह्मण्यकारक तत्स्यात् यत्तत्सन्ध्यात्रयं शुभम् ॥ दिने दिने ब्राह्मणेन असावादित्यमन्त्रतः। सोऽहंभावनया दिव्यं कृतं ध्यानं महर्षयः(र्षिभिः)॥ सन्ध्येति प्रवदन्त्येते श्रुत्युक्ताः परमर्षयः । ब्रह्मध्यानात्परं कर्म नान्यत्किमपि विद्यते ॥ तञ्च ध्यानं मन्त्रवाक्यार्थतत्वज्ञ परं महत् । उत्तमोत्तममित्युक्त तद्वाक्यार्थश्च केवलः॥ न कार्यकारकः प्रोक्तः किंतु सोऽनुभवात्मकः । गुरुप्रसादैकलभ्यो गुरुरेवेश्वरः परः॥ देवगुर्वोर्न भेदो हि गुरुर्देवाद्विशिष्यते । गुरुः सम्यग्बोधयति तमः परिहरेदपि ॥ देवोऽपि गुरुरूपेण समागत्य कृपामयः । तद्बोधकः प्रभवति तेनासौ कृतकृत्यताम् । सम्प्राप्नोत्येव सततं तस्माद्वन्धः सदा गुरुः । सन्ध्यान्ते तु प्रतिदिनं गुरुभ्यो नम इत्यपि ॥ सन्ध्यायै चापि सावित्र्यै गायत्र्यै नम इत्यपि । देवताभ्यश्च सर्वाभ्यो वेदेभ्यो वा विधानतः॥ देवेभ्यो वाऽथर्षिभ्यश्च मुनिभ्यो नम इत्यपि । नमस्कारं प्रकुर्वन् वै प्रवदन्वा विशेषतः प्रदक्षिणं प्रकुर्वीत कामोऽकार्षीन्मनुजपेत् । तदा मन्युरकाषींदित्येतद्यत्तन्मनु जपेत्॥ दिङ्नमस्कारः नमोनमश्च मन्त्रान्ते वक्तव्यं स्यात्रिकालके। कर्णी पादौ तथा स्पृष्ट्वा कृताञ्जलिपुटस्ततः ।। मन्त्रानशेषान् तत्तत्कुलप्राप्ताचारतश्च तान् । उपदिष्टांश्च संप्राप्तान जपेदेव विधानतः॥ अर्ध्यान्ते वा तथा गायत्र्युपस्थानान्तरं तु वा । नमः प्राच्यादिमन्त्रांश्च प्रवरादीन्विधानतः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy