________________
मार्कण्डेयस्मृतिः अमुख्यं मुख्यमेव स्यादिति शास्त्रं महर्षिभिः । उपदिष्ट सर्वलोकहिताय सुमहात्मभिः
द्विमुख्युदकस्नानम् नित्यस्नानात्परं नित्यं द्विमुख्युदकतो भवेत् । यत्कर्तव्यं कर्मजातं तदेतदखिलं परम् ।। तत्पूर्वमृत्तिकाशौचकार्यादिषु पुनर्यदि । तज्जलं विनियुक्त चेद् गंगादिषु हठात्परात् ॥ तबुद्धिपूर्वतस्त्व|दयेऽपि च महोदये । सूर्योपरागादिकालविशेषेषु गुरूनपि ॥ न्यक्कृत्य निष्ठीवनतो गुदप्रक्षालनेन च । यत्पापं जायते करं तदवाप्नोति केवलम् ॥ चैलवयं समुद्धृत्य शुद्ध हस्तद्वयेन वै । उत्तरीयं प्रथमतः प्रादक्षिण्येन मूर्धनि॥
वस्त्रधारणमन्त्रः धृत्वाऽथ प्रामुखस्तिष्ठन् वसां यद्धारणाय तत् । बिभृयात्कच्छया युक्त आवहन्तीति मन्त्रतः ।। न चेत्सोमस्य तनूरित्येतेन यजुषा सदा ।
वाससो धारणे मन्त्रौ चोदितौ अथवा पुनः ।। तूष्णीकं वा तद्धरेद्व पादप्रक्षालनं ततः । कृत्वाऽऽचम्य विधानेन प्राणायामादिपूर्वतः ।। परमेश्वरतुष्टयर्थ प्रातस्सन्ध्यामहं शिवाम् । उपासि(ध्यइ)ति संकल्प्य मन्त्रप्रोक्षणमाचरेत् सन्ध्याकर्माख्यतदिव्ययोग्यतायै तदुच्यते । आपोहिष्ठेति नवभिः यजुर्मः प्रणवेन वै संयुक्त रतिशुद्ध स्तैः प्रोक्षणं तादृशं शिवम् । मुखे प्रकथितं सद्भिः सूर्यश्चेति ततःपरम् । महामन्त्रा वेदमध्यः चतुर्विंशतिवर्णकः । रक्षन्तामिति लोडन्तः कर्तारस्तत्ररक्षणे।
सूर्यश्च मन्युस्तत्पश्चात् मन्यूनां पतयस्तथा।
तत्पापेभ्यः सकाशान्मां एको मन्त्रोऽयमुच्यते ॥ यद्वाोरित्ययं मन्त्रः द्वितीय इति चोदितः। अवलुपत्वन्त इति द्वात्रिंशद्वर्णको मनुः ।।
यत्पापं कृतवानस्मि राज्याराज्यामितिस्मृतम् ।
ब्रह्मा चास्मीति संप्रोक्तं मनश्शब्दायश्च षट ॥ प्रसिद्धा एव नितरां षष्ठः शब्देषु तेषु च । तृतीयंतइति होयः साहचर्येण संस्कृतः ।।