________________
३६
मार्कण्डेयस्मृतिः द्विजं दृष्ट्वातिसंतुष्टाः तत्पश्चात्सलिलार्थिनः।
विष्ठन्ति तत्तटे नित्यं तस्मात्तभ्यो दिने दिने । कालद्वयेऽतिभक्त्यैव स्नात्वाऽनन्तरमेव वै । सर्वाङ्गसलिलं वनजलमुक्तविधानतः॥ दद्यादनेन मन्ोण न देनं शान्ति ते। मदङ्गवस्त्रकेशाघसलिलं यत्तदर्थिनाम् । अद्य दत्तं मया नूनमक्षय्यमुपतिष्ठतु । नित्यं कालद्वये स्नानं गृहस्थस्य विधीयते ॥
यतेः कालत्रये तत्स्याद्वर्णिनां तु यथारुचि ॥
स्नानभेदाः एकवारं द्विवारं वा यथेच्छं तस्य तस्मृतम् । एवं स्नातुमशक्तानां पानीये शीतले परम्।। उष्णोदकेन विहितं तत्राशक्तस्य तत्परम् । कण्ठस्नानं कटिस्नानंपादस्नानं तथोक्षणात्॥
मन्त्रस्नानमतिश्लाघ्यं न चेद्गोरजसापि तत् ।
सर्वेष्वेषु पुनः शक्तिविकलो यदि तत्परम् ॥ छायावगाहनं कुर्यात्तत्तु स्नानोत्तमोत्तमम् । तिष्ठन्मत्रजपं कुर्वस्तदाशक्तस्तु केवलम् ॥
तच्छायायां जलं सिञ्चत्तच्छायास्नानमुच्यते ।
तस्मिन्यद्यप्यशक्तश्चेत् कापिलस्नानमाचरेत् ॥ दिव्यस्नानं विशेषेण स्नानानामुत्तमोत्तमम् । यदा वा लभ्यते तत्तु तदा नैमित्तिकं तु तत् सर्वपापहरं पुण्यं सर्वेषामपि सन्ततम् । दुर्लभं तद्विशेषेण लभ्यं सातपवर्षतः ॥ संकल्पाचमने तस्य न स्यातां नैव तर्पणम् । धारानिपातपर्यन्तं स्नानमन्त्रजपो भवेत्॥ मनः पर्याप्तिपर्यन्तं स्थितिमा तदा परम् । स्नानमाहुमहात्मानः यथारुचि तथाचरेत॥
कायानुगुणतः स्नानं विहितं सन्ततं द्विजैः। .
आदौ निखिलधर्माणां निदानं वर्म केवलम् ।। सर्व तदानुगुण्येन कर्मजालं समाचरेत् । शिरसः पादयो ह्वोरङ्गानां यस्य कस्यचित्॥
कायमात्रोपद्रवस्य यदा संभावना भवेत् । लानवस्त्विति तस्याज्यं मुख्यं त्यक्त्वैव केवलम् ।।