SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ देवर्षिपितृतर्पणविधिवर्णनम् वर्णनीयं च सौलभ्यात्तत्तथैव निरूपितम् । पुनश्च संप्रवक्ष्यामि संग्रहेणैव तत्पुनः॥ प्रतश्राद्धान्यदिवसमात्रेषु क्षीरिणां सदा । प्रशस्तान्येव काष्ठानि दन्तधावनकर्मणि ॥ दन्वधावनतः पश्चात् कुर्यादाचमनद्वयम् । ततः स्नानाय च पुनः कुर्यादाचमनद्वयम् ।। प्राणायामत्रयं कृत्वा पश्चात्संकल्पमाचरेत् । देशं कालं च संकीर्त्य तिथिवारसमन्वितम् ।। स्नानमन्त्राः प्रणम्य तीर्थराजं च तस्मै दत्त्वार्यमुत्तमम् । आपोहिष्ठाहिरण्यादिद्रुपदादिकमेव च । हिरण्यशृङ्गाद्यखिलं इन्द्वन्तं पावमानकम् । आपो वेति महामन्लां सितासितभृगादिकम् ॥ जप्त्वा निखिलमन्त्रान्तान्पावनान्श्रुतिशीर्षगान् ।। स्नानान्तरकतव्यम् प्रोक्षयित्वावगाह्याथ निश्शब्दं चोरवजले । ऋषीन् देवान् पितॄन् पश्चात्तर्पयित्वा च शास्त्रतः॥ आचम्य च विधानेन मन्त्रेणैव ततः परम् । अनेन तर्पणं कुर्यात्तमिमं वर्णयाम्यहम् ॥ यन्मया दूषितं तोयं शारीरमलतोऽधिकम् । तस्य पापविशुद्धयर्थं यक्ष्माणं तर्पयाम्यहम् वस्त्रोदकदानमन्त्रः अथ वस्त्रं पीडयित्वा भूमौ सिञ्चेच्छिखाजलम् । सर्वाङ्गसलिलं चापि भूमौ तिष्ठन्मुहूर्तकम् ॥ तत्तजलार्थिनां नित्यं स्रावयित्वा विधानतः । यत्तत्स्वीयांगसंसक्त तज्जलं वै तदार्थिनाम् ॥ ... दत्वा निकामं तत्पश्चाच्छुद्धं वस्त्रां तु विभृयान् । बहिर्विनिर्गतं स्नातुं सर्वे देका महर्षयः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy