________________
मार्कण्डेयस्मृतिः यत्रकुत्रशुचौदेशे पश्चात्तां च दिनेदिने । तदा तदा मृद्धान्यैव संगृह्य च पुनः पुनः ।। शौचं कुर्याद्विधानेन न चेच्छौचेन केवलम् । वैकल्यभाग्भवत्येव पुनः सर्वेषु कर्मसु ॥ तादृशेन न संदेहस्तन्मूला हि क्रिया पराः । यया कयाचित्कृतया मृदाशौचं वृथा भवेत्॥
- कृतमप्यकृतप्राय तस्मात्तत्परिवर्जयेत् ।
- गण्डषविधिः कुर्यात्तदन्ते गण्डूषं सम्यग्द्वादशसंख्यया। मूत्रमात्रस्य चेद्भूयो दशाष्टौ वा मृदासकृत्॥ समुष्कं झालयेत्सम्यक् शुद्ध न पयसैव हि । अशुद्ध नातितुच्छेन नदुर्गन्धेन कदाचन ॥ न क्षालयेत्तथा शौचं गुहं पादकरावपि । अशुद्धजलतोयस्तु शौचं मूत्रपुरीषयोः॥ कुर्यात्पुनरसौ च स्यात्तदोषस्य निवृत्तये । शुद्धन पयसा शौचं पुनः कृत्वा विधानतः॥ पादौ प्रक्षाल्य चाचम्य स्नानं कुर्यात्समन्त्रतः। नचेदस्पृश्य पयसः स्पर्शनेनैव केवलम्॥ प्राप्त माशौचमधिकं निवृत्तिस्तस्य तेन हि । समन्त्रोण न चान्येन संगेनेति महर्षयः॥ रहस्यमत्र वक्ष्यामि यदुक्तं तन्मया पुरा । द्विमुख्युदकतोऽतीव कृतमाचमनं तु यत् ॥
तत्पुनात्यवशात्पापं बदा किमपि नास्ति हि । मन्त्रस्नानादिकं कृत्स्नं तत्सृष्ट्वैव क्षणालभेत् ॥
दन्तधावनम् निर्वृत्य शौचं पश्चात्तु दन्तधावनमाचरेत् । तत्पुनस्तु मृताहेषु गुरूणां यस्य कस्यचित्॥ भ्रात्रादेर्वा कनिष्ठस्य दर्शादिष्वखिलेष्वपि । अन्नश्राद्धषु नितरां न कुर्यादन्तधावनम्॥ तेषु चेत्तु पुनस्सम्यक् श्राद्धकतु महात्मनः । अपां द्वादशगण्डूषैमुखशुद्धिर्भविष्यति ॥ तद्भिन्नदिनमागेषु निखिलेषु व्रतेष्वपि । नैमित्तिकेषु पुण्येषु कृच्छ्रादिष्वखिलेष्वपि ॥ तृणपणैः प्रकुर्वीत चामामेकादशीं विना । तयोरपि च कुर्वीत जम्बूप्लक्षरसालकैः ।। रसालवर्णरचितदन्तधावनकर्म यत् । पितृश्राद्धदिनं मुक्त्वा तन्न(दूः)ष्यतिसन्ततम् ।। तत्तत्काष्ठविशेषाणां दन्तधावनकर्मणि । तत्तहिनविशेषेषु प्राशस्त्यं न तु सन्ततम् ।। तद्विशेषेणसंकीर्त्य कृत्वा तद्प्रन्थविस्तरम् । प्रयोजनं न किमपि प्रकृते दन्तधावनम् ॥