________________
मार्कण्डेयस्मृतिः
पुण्यश्लोकाः तमिमं वः प्रवक्ष्यामि पुण्यं मन्त्रं च तादृशम् । नान्तरीकेषु कालेषु यूयं जपत च द्विजाः
ब्रह्मा मुरादिणित्रिपुरान्तकश्च भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ।।
इममन्त्रां समुच्चार्य पश्चात् खलु समाहितः ।
पुण्यश्लोकान् कीर्तयेच्च पुण्यश्लोकाश्च ते स्मृताः॥ नलादय इतिख्याताः तत्कीर्तनमहामनुम् । सम्पनिरूपयिष्यामि हिताय जगतामहम्
पुण्यश्लोको नलोराजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोका च वैदेही पुण्यश्लोकः पुरूरवाः ।। कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् तत्रादौ संप्रवक्ष्यामि कार्कोटकहरेः परम् । असाधारणतो ज्ञयं कीर्तनं कलिनाशनम् ॥ नलस्य दमयन्त्याश्च विशेग निरूयते । असाधारणतो ज्ञयं कीर्तनं पापनाशनम् ।। ऋतुपर्णस्य राजर्षेः असाधारणतः परम् । विज्ञयं निखिलैरत्र कीर्तनं पुग्यवर्धनम् ।। तत्र साधारणे ज्ञये सर्वेषामपि सन्ततः(म्) । कीर्तनाकलिनाशत्वं पापनाशत्वमेव च ॥ तत्पुण्यवर्धनत्वं च तेष्वेतेषु च त्रिष्वपि । असाधारणधर्मोऽयं एक एव द्वयं (तु' तत् ।। शिष्टं साधारणो धर्मः सर्वत्रैवं हि निर्गयः । एतेषां स्मरणात्पश्चादुत्थायोवी प्रणम्य वै इमं मन्त्रां समुच्चार्य गच्छे कार्येषु सन्ततम् । तं च मन्त्रं प्रवक्ष्यामि भवतां विशदाय वै
प्रातरुत्थाय गमनमन्त्रः
समुद्रवसने देवि पर्वतस्तनमण्डिते । अनेकन लग्ने पादस्पर्श क्षमस्व मे ।। बहिरागत्य तत्तश्चान्मनेगानेन धर्मतः । जलपात्रं च संगृह्य मृद्वानीमपि भस्त्रिकाम् ॥ प्राहयित्वा दृढा पूर्व यत्नसंपादितां शुभाम् । नै मृत्याभिषुनिक्षेपमात्रं गत्वाऽथ तत्र वै ।।