________________
मार्कण्डेयस्मृतिः पतिव्रतोदिताश्चापि महच्छ यो विधायकाः । पञ्जरस्थैः शुकैगैहे पालितैरवशोदितः ॥
__ वचनैरपि कार्याणि विज्ञ यानि मनीषिभिः।
समीचीनासमीचीना तदास्य मतिरीरितः(ता)। भवेयुरेव कार्याणि नात्र कार्या विचारणा । तस्मिन्मुहूर्ते ब्रह्माख्ये स्वोत्थानसमये यदि देवतावाचकरुतं श्रुतं मंगलवाचकम् । अत्यन्तं भावि कार्यस्य ज्ञापकं तद्भवेद्धवम् ।। मतं तदीयं पुरतो अ(घ)वशादपि निर्गतम् । श्राव्यं चेदति भव्यानां ज्ञयं दुर्गतिवारकम् सुखश्राव्यरुताः राजभवनेषु निरन्तरम् । प्रवेश्याः पालनीयाश्च पक्षिणश्चित्रवर्णकाः ।। गृध्रकंकबकोलूकतामंचेटकतुम्नकाः । जडकोटनटप्रोथप्राणिविन्दुमरत्वराः॥
___वर्जनीयाः पालनार्थे न प्रवेश्याश्च वेश्मसु ॥
___ गृध्रादीनां गृहारोहणफलम् कपोतगृध्रोलकानां गृहसंबन्धतः परम् । गृहिणस्तकलत्राणां पीडा नु महती भवेत् । कूर्मागमनतो गेहे यजमानो निरन्तरम् । अनिवर्त्यमहारोगैराक्रान्तो दुःखभाग्भवेत् ॥
तदोषपरिहाराय शौनकोक्ता सुपावनीम् । शान्ति बोधायनोक्तां वा कुर्यादेवाऽविचारयन् ॥ शान्त्यां कृतायां सुमहत्सद्यःश्रेयो भवेन्न चेत् ।
प्रभवेत्तु महानर्थः तस्मान्नैमित्तिके वशात् ।। सम्मगतेति चपलं बुद्धिमान् सुसमाहितः । यस्य प्रतिपदोक्त यत्तदेव हि समाचरेत् ।। तदलं बहुना तूष्णीं प्रसक्तानुप्रसक्तितः । बाडबः प्रातरुत्थाय देवानां ध्यानमाचरेत् ॥
तद्ध तुभूतमन्त्रांश्च पुराणोक्तान वदेदपि ॥
___अपररात्रेकर्तव्यम् स्वाध्यायनिरतश्चेत्तु तत्र निष्ठो भवेदति । नास्त्यस्य मन्त्रपठने चास्यावश्यकता परा।
तस्य तौव सर्वे स्युः मन्त्रा यज्ञास्तपांसि च । तीर्थानि सरितश्चैव दानानि विविधानि च ॥