________________
मार्कण्डेयस्मृतिः सर्वप्रयाणकालेषु कुणपस्य च दर्शनम् । आभिमुख्याभिगमनं चतुर्भिर्वाहकैस्सहः॥ साक्षातुरन्दरस्यापि दुर्लभस्तत्प्रकीर्तितम् । अत्यन्तस्वगृहस्याराद्वामाइक्षिणतो यदि ॥ बलिभुग्गमनं शस्तं सर्वकार्यैकसाधकम् । नारायणमहापक्षिगमनं चेत्तथा पुनः । सर्वप्रयाणकालेषु जातं तत्कार्यमित्यपि । विज्ञेयमेव सुव्यक्त चाञ्चल्यं तत्र वर्जयेत् ।। कार्याथं भाषमाणेषु तदा यद्यवशात्पुनः । अश्वप्लुतं भवेद्रम्यं तत्कार्ये वृद्धिरुच्यते ॥
सद्यः सिद्धिश्च कथिता सुराणामपि तादृशम् ।
निमित्तं दुर्लभं शस्तं नराणां किं पुनः स्मृतम् ॥ तत्त कार्यकवाक्येषु चलस्वेकत्र चेत्तदा । लौकिकं वा वैदिकं वा वाक्यं तद्धृदयंगमम् ।। तदानुकूज्यैकरूपसाधकं तच्छ्र तं यदि । तत्कायं च ततः पश्चात्कालेनाल्पेन सिध्यति ।। संदिग्धशुभकार्याणां चिन्तनेष्वतिसंशयात् । कर्तव्यत्वाकर्तव्यत्वद्वयेनैवातिसंकटात् ।। कुरु मास्वत्र संदेहः एवं वाक्य उदोरिते। तदा तं संशयं त्यक्त्वा तत्कार्यमतिशीघ्रा ।। कुर्यादेवाविचारेण तत्कार्य तत्परं ध्र वम् । वृद्धिं प्राप्नोति महतीं मस्मिन्नर्थेन संशयः॥ सर्वत्र शुभकार्येषु समुद्युक्तषु सन्ततम् । कर्तुं तदा वशाजातं निमित्तं शुभसूचकम् ।। शुभकार्य करं स्याद्धि रोगोपद्रवचिन्तने । राजचोरारिचिन्तानु तदा सद्यः समुत्थितम् घण्टाशब्दः शंखशब्दः वेगुषोणादिसुस्वरः । तूर्यशब्दो गीतशब्दो तालस्वस्तिकवैणवाः भेरीमृदङ्गपणवढक्काडिण्डिमसंभवः । सर्वे शब्दाः किं बहुना शुभत्वेन निरूपिताः ।। ते सर्वे स्युः पृथक्त्वेन सद्यः प्राणहराः स्मृताः । रोगादिचिन्तने तर्हि चौषधादिपरिग्रहे क्षुतमास्यध्वतिर्मास्तु ध्वनिदुर्लक्षणादिकः । तच्छामकः प्रकथितः सद्य एव न चापरः ।।
एवमेवाशुभानां च कार्याणां संततं स्मृतम् ।।
__दुष्टनिमित्तानि प्रयाणादिषु सर्वेषु दुनिमित्तानि केवलम् । प्रशस्यन्ते विशेषेण न स्युस्तत्र शुभानि वै ।। यानि दुष्टनिमित्तानि रोगपीडादिकर्मसु । तानि सन्ति प्रशस्तानि सर्वदा नात्र संशयः॥ काकवद्यदि मार्जाल:(रः)प्रयाणेषु गतो भवेत्। स समीचीन इत्युक्तः विपरीतोऽन्यथा स्मृतः