SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्वकार्यानुकूल पक्षीगमन सम्पादन वर्णनम् २७ तदशने यो नियमं कृत्वा तस्यावलोकने । अत्यन्तमटनं कुर्वन् तमदृष्ट्वैव केवलम् ॥ निनदं वा क्रोशनस्य शृण्वन् तस्यावलोकने । यच्छ यस्तदवाप्नोति विप्रं पश्येदथापि वा गरुत्मतो भानुवारे दर्शनाच्च स्वरो वरः । सचेष्टयोर्द्वयोस्तद्वदत्यन्ताक्रोशतोः मिथः ॥ परिक्रमणतो भूयः प्रादक्षिण्य विधानतः । दर्शनं वासुदेवस्य साक्षाल्लक्ष्मीपतेरपि ॥ अत्यन्तदुर्लभं प्रोक्त' ततः शतगुणं शिवम् ॥ चापादिदर्शनम् चाषस्य दर्शनं श्रीमत्सर्वसंपल- दायकम् । यदा कदा यत्र कुत्र गमनं वामतो यदि ॥ चाषस्य तस्य वान्यस्य भरद्वाजाख्यपक्षिणः । जीवं जीवस्य कौश्वस्य कण्वराधकलापिनाम् ॥ सर्वसिद्धिकरं प्राहुः भाविकार्यं च हस्तगम् । जातमेवेति विड़ोयं तत्कालेन तु केवलम् ॥ निन्द्यो निनादो विज्ञेयः प्रयाणेष्वखिलेष्वपि । पक्षि (क्षीणां गमने काले निनादो निन्द्य उच्यते ॥ विवाहमैत्रकृत्यादिगमनेषु (पक्षि ) भिः कृतः । तत्कार्य मध्यपरमकलिकृन्नाद ईरितः ॥ उपविश्यैव तिष्ठन्तं तुष्णीकं पादपादिषु । पक्षिणं क्रिययास्वस्य मार्गमध्येषु बुद्धिमान् ॥ तत्कार्यस्यानुकूला (ल्या)य लोष्ठपाषाणदण्डकैः ॥ स्वकार्यानुकूल पक्षिगमन संपादनम् (भीषयन् वा गतिं तस्य साधये दनुकूलतः । बलाच्छत्रं च शकुनं स्वत्र्यापारेण सन्ततम् ॥ स्वानुकूलं साधयीत तेन श्रेयो महद्भवेत् । द्विजद्वयस्याभिभुलं एकशूद्रस्य वा तथा ॥ प्रयाणेषु प्रशस्तं स्यात्तच्छ्रीदस्यापि दुर्लभम् । दर्शनं पूर्णकुम्भस्य बहूनां वा द्वयोस्तु वा आभिमुख्यपुरंध कसमानीतस्य दुर्लभम् । साक्षाच्चतुर्मुखस्यापि देवदेवस्य वा तथा !! भेरीताल मृदंगौघवारस्त्रीणां विशेषतः । आभिमुख्याभिगमनं दर्शनं च प्रशस्यते ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy