________________
३८४
लौगाक्षिस्मृतिः चिरण्टीनां पाककार्येऽधिकारः स्यान्न तत्पुरः । पार्क यद्यसमीचीनं कारये ... मः ।
मोहेन कुरुते श्राद्धं पितरस्तस्य तत्क्षणात् ।
वातापील्वलसन्दष्टाः खण्डिता भक्षितास्तथा ॥ सन्दग्धा मूच्छितानष्टाः भवेयुर्नरकाश्रयाः । ..... 'समीचीनं पाकेऽस्मिन्प्रतिपादितम् विभिन्नसूतकिकृतं गर्हितं शास्त्रजालकैः । ये भिन्नसूतकाचाराः भिन्नभाषा परिग्रहा श्राद्धपाकक्रियानर्हाः त ... कीर्तिताः । तत्स्पष्टं श्राद्धशिष्टान्नं श्राद्धकर्ता परित्यजेत श्राद्धात्परं च यत्नेन तत्पूर्व सुतरां किमु । विभिन्नसूतकाचारान् आमानयनकर्मसु । संयोजयेन्नपाकादि क्रियास्वत्र कथंचन । इष्टभोजनकार्येषु श्राद्धभिन्नेषु तदिने ।
योजयेत्स्वजनाभावे भिन्नसूतकिनो जनान् । भिन्नाशीची भिन्नवेषी भिन्नभाषापरिग्रहः । जनभाषा विकारी च श्राद्धकर्मसु गर्हिताः।
पाकक्रियायां सुतरां संत्याज्याः पितृदुःखदाः।। ते सर्वे कथिताः सद्भिः अभिश्रवणकर्मणि । पादप्रक्षालनांगारलेपनादिषु वस्तुनाम् । आंमानां फलमूलाग्निगोमयानयनादिषु । पाकात्परं तु ज्ञातीनां शुद्धानां स्पर्शनेऽधिक
अधिकारोऽस्तिबन्धूनां नान्येषामिति निश्चयः ।
पिण्डोद्वासनतः पश्चात् पिण्डानां भिन्नगोत्रिणाम् ।। अधिकारः स्पर्शने स्यात्तच्छिष्टतिलदर्भयोः । संस्पर्शनाधिकारः स्याद्विप्रमात्रस्य वै सत 'नासतस्तु कदाचित्स्यादर्भानयनकर्मणि । ऋत्विजां मुख्यकर्तृत्वं स्वस्मादपि विशेषतः कथितं ब्रह्मनिष्ठस्तैः समिदाहरणे तथा। भिन्नभाषो भिन्नवेषः शिखाभिन्न कुकच्छकः असिद्धशाखासूत्रश्च निन्दितःश्राद्धकर्मणि । एतद्धस्तस्पर्शनेन पक्कमात्रं सुनिन्दितम् ।।
रक्षसांभाग एव स्यान्न पितृणां तु तद्भवेत् । समानसूतकाचारा भिन्नकच्छा बला जनाः ।। व्यत्यस्तानारीसंयानाः पितृणां भयदायकाः । व्यत्यस्तकच्छाचाराग्निशिखादूरी कृता जनाः ।।