________________
मुहूर्तादिकालनामवर्णनम् एवमलां च नामानि शुक्लपक्षस्य वै क्रमात् । तत्र संज्ञाननामेदं प्रोक्त प्रतिपदस्ततः ।। विज्ञाननाम तु पुनः द्वितीयाया भवेद्धि तत् । एवं क्रमेण प्रज्ञानं जानञ्च तदनन्तरम् ॥ अभिजानत्पञ्चमं स्यादथज्ञेयं क्रमेण वै । संकल्पमानं प्रकल्पमानं छुपपदेन वै॥ कल्पमानं च विज्ञेयमुपक्लप्तं च क्लप्तकम् । श्रेयोवसीय आयुश्च संभूतं भूतमेव च अह्रां शुक्लस्य मन्त्राः स्युः क्रमेण न वेदतः। ... कृष्णपक्षस्य पतिपत्क्रमस्तथा ॥ रात्रेर्मुहूर्ताःमन्त्रास्ते नामरूपाःसनातनाः। दाता प्रदाताऽऽनन्दश्च मोदस्तुर्यः प्रकीर्तितः प्रमोदः पञ्चमो ज्ञेयः पश्चादावेशयन्पुनः । निवेशयन्नेवमेव संवेशन इतिस्म वै॥ संसन्नस्सन्न इत्येव आभवन्विभवन्नथ । संभवन्नपि संभूतः भूतश्च चरमः स्मृतः॥ एतेमन्त्राः शुक्लपक्षरात्रीणां चोदिताः क्रमात् । मुहूर्ता वेदविहिता रात्रीणां मनवश्वते । विज्ञेया अथ भूयश्च क्रमेणैव महात्मभिः । दर्शा दृष्टा दर्शिता च विश्वरूपा सुदर्शना
आप्यायमाना तत्पश्चात् प्यायमानात्ततः पुनः।
अप्याया सूनृतेरापि विज्ञेया तदनन्तरम् ॥ आपूर्यमाणा तद्वञ्च पूर्यमाणा च तत्परम् । पूरयन्ती च पूर्णा च पौर्णमासी क्रमात्स्मृता कृष्णपक्षस्य तत्पश्चादह्रां तत्क्रमतः पुनः । मुहूर्तानां हि मनवः सविता प्रथमोऽत्र हि ॥
अथ प्रसविता ज्ञेयः दीप्तोऽयं दीपयन्नपि ।
दीप्यमानोज्वलन्पश्चात् ज्वलिताऽथ ततस्तथा ॥ वितपन्संतपन्भूयः रोचनोऽथ तथैव च । रोचमानश्च शंभुश्च शुम्भमानस्ततस्मृतः॥
अन्त्योवामश्च विज्ञेयः क्रमात्पञ्चदश (शैव) ते । अथाह्रां तस्य पक्षस्य मन्त्राः पञ्चदश क्रमात्॥ विज्ञेयाः श्रुतिसंवेद्याः प्रस्तुतं प्रथमं स्मृतम् ।
विष्टुतं तु द्वितीयः स्यात् संस्तुतं तु तृतीयकम् ॥ कल्याणं विश्वरूपं च शुक्र तत्परमेव वै । अमृतं च ततो ज्ञेयं तेजस्वी तदनन्तरम् ।। तेजः समिद्धं तत्पश्वादरुणं भानुमत्ततः । मरीचिमत्ततोज्ञेयं तथाभितपदेव च ॥ तपस्वच ततो ज्ञेयं कृष्णपक्षस्य तत्परम् । अह्रां मुहूर्तमन्त्रास्तु विज्ञेयाः श्रुतिचोदिताः॥