SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ लौगाक्षिस्मृतिः अभिशास्ताऽनुमन्ताऽथ चाऽऽनन्दो मोद एव च । प्रमोद आसादयश्च पश्चात्तु स्यान्निषादयन् ।। संपादयंश्व संशान्तः शान्तश्च तदनन्तरम् । आभूर्विभूः प्रभूः शंभूर्भुवश्चान्ते प्रकीर्तितः ।। सुता च सुन्वती चैव प्रसूता तदनन्तरम् । सूयमाना च तत्पश्चात् प्रोक्ताभिषूयमाणका पीती प्रपा च संपा च तृप्तिश्चापि ततः पुनः। तर्पयन्ती ततो ज्ञेया कान्ता काम्या च चोदिता। कामजातायुष्मती च पश्चात्कामदुधेतिते । मन्त्राः पञ्चदशप्रोक्ताः क्रमेणैवेति तत्क्रमः पवित्राद्या द्वादशैते पक्षाणां मनवोमताः। जयन्नाद्यास्तथा कृष्णपक्षाणां द्वादश स्मृताः पवयिष्यन्पवित्रं च पूतो मेध्यो यशस्तथा । यशोयशस्खानायुश्चामृते जीवस्ततः पुनः ॥ जीविष्यन्नपि तत्पश्चात् स्वर्णलोकस्तथैव च। . सहवाश्च सहीयांश्च चोजस्वान् सहमानकः॥ जयत्नाभिजयन्पश्चात्तथा संद्रविणः परः । द्रविणोदास्ततोज्ञेयः पश्चादाद्रपवित्रकः ।। हरिकेशोऽपि मोदोऽथ प्रमोदोऽन्त्यः क्रमात्स्मृतः। पक्षे कालाख्यमन्त्राः स्युरिमे सर्वे सर्वेऽत्र वै॥ कल्याणे क्षुद्रचयनेऽप्यरुगादिकचोदिताः । त्रयोदशापि ते ज्ञेया मासानामेव केवला: अरुणश्चैत्रमासस्य वाचकोह्यत्र तत्परम् । क्रमादेव सुविज्ञेया अथारुणरजाः पुनः॥ पुण्डरीको विश्वजिच्च ह्यभिजिञ्च ततः पुनः।। आद्रश्च पिन्वमानश्चान्नवानपि तथा ततः ।। रसवांश्च निरावांश्च सर्वोषध इतीव वै । संभरश्च महस्वांश्च मासमन्त्रा उदीरिताः पूर्वपक्षस्त्वहोरात्रमुहूर्तेः संख्यया खलु । चोदितः षष्ठिसंख्याक कृष्णपक्षश्च तादृशः ___ अतस्ते षष्टिसंख्याकाः वत्सराः प्रभवादयः। दिवसानां च घटिकाः संख्यायां षष्टितः कृताः।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy