________________
३७४
लौगाक्षिस्मृतिः सोऽयं महान्ति दानानि तुलादीन्यखिलान्यपि ।
प्राजापत्यादिकृच्छ्राणि ब्रतानि विविधानि च । भवेत्कर्ता तदा भूयः सर्वतीर्थ कृताप्लवः । कर्मणा तेन महता तुष्टोऽयं परमेश्वरः॥ सर्वदेवमयो योगी ध्ये(योनारायणो)विभुः। तत्कांक्षितान्प्रदत्वैह कृत्स्नयज्ञात्मको विभुः सायुज्यनामकांमुक्ति प्रदद्यादचिरेण हि । सर्वयागमयस्यास्य श्राद्धस्य करणात्किल। यागैर्यथातिमुष्ट ... ... णा | प्रतुष्टश्चित्तशुद्धिमतां दत्वाऽस्मै भक्तवत्सलः॥ श्रवणादिमुखेनैव ज्ञानं तद्ब्रह्मबोधकम् । उत्पादयित्वा तद्द्वारा कृतकृत्यं करोति हि॥ यागाकालाश्च भगवान्वेदमात्रस्वरूपिणः। संहृत्यलोकानखिलान् पुरादेवो जगत्पतिः रूपहीनो वेदरूपधरो नित्योऽयमच्युतः । उत्तिष्ठस्किल (१) तस्मात्तु वेदो देवस्य विप्रहः तद्वदमन्त्रसाध्यत्वाद्यज्ञो वेदस्वरूप्यति । यज्ञस्यापि तथाकाले कर्तव्यत्वेन चोदनात्॥ कालोऽपि बेदरूप्येव तन्मन्त्रैकनियोगतः । तत्रेदानीं तदासामित्येते पञ्चदशापि ते॥ मुहूर्तानां मुहूर्ता हि पृथमन्त्राश्च ते पुनः। एतर्हिक्षिप्रमजिरमाशुः पश्चानिमेषकः ॥ फणोद्रवन्नति द्रवन्त्वरस्त्वरमाण एव च। आशुराशीयान्जवश्व स्मृतः पञ्चदशक्रमात् एतेषामपि सर्वेषां तया देवतया पुनः । अनुषङ्गः प्रकर्तव्यः इत्थंभावे तु सन्ततम् ॥ तथैव वक्ष्यमाणानां मुहूर्तानां च कृत्स्नशः । अह्रां तथैव रात्रीणां तादृमन्त्रैर्यजुर्मयैः इष्टका उपधेयाः स्युः सावित्रचयने किल । सावित्रचयनाख्योऽयं कालरूपविशेषकः।। मन्त्रीरुपधेयत्वात् कालरूप इतीरितः । एतेनायं मन्त्ररूपः वेदरूपश्च चोदितः॥
स यज्ञो भगवान्साक्षात्कर्ता नारायणो विभुः। आभूर्विभूः प्रभूः शम्भुस्तत्कायः परमेश्वरः॥ साक्षान्मुहूर्तास्ते प्रोक्ताः अह्रां पञ्चदशापि वै ।
चित्रकेतुः प्रभानाभान्संभानपि तथा ततः॥ ज्योतिष्मानपि तेजस्वानातपस्तदनन्तरम् । तपन्नाभितपन्पश्चाद्रोचनस्तदनन्तरम् ॥
रोचमानश्च कथितः शोभनः शोभमानकः। कल्याणश्चरमः प्रोक्तः कालोमन्त्रात्मकःपरः।