________________
लौगाक्षिस्मृतिः वर्णी गृही वनी वापि क्रमसंन्यासकर्मणि । जीवश्राद्धविधानेन कुर्यादेव द्विजोत्तमः आपत्सन्यासकार्येतु नियमा निखिला अपि । निवर्तन्ते द्विजातीनांप्रेषमात्रेण केवलम् ससन्यासो मवेदेवतश्चित्तस्य महात्मनः। संन्यासाद्ब्राह्मणस्थानं सर्वशास्त्रेषु निश्चितम
न संशयोऽत्र कर्तव्यः संशयी पापभाग्भवेत् । संन्यस्तानां कदाचित्स्यान्नाशौचं नोदकक्रिया ।। भिक्षोमतस्यकायोऽयं दर्भग्रन्थिहिरण्ययोः ।
तुलितः सर्वदा प्रोक्त पवित्रः पावनो महत् ।। नर्य भस्मैकतुलितः स्पर्शनादघनाशनः । सालियावा यथा शुद्धः वज्रकीट बहिष्कृतः॥ अत्यन्तैकमहाशुद्धः स्पृष्टमात्रावारकः । कृष्णाजिनव्याघ्रचर्म खड्गशङ्खवदेव वै॥ अङ्गीकार्यः पूजनीयः सर्वैरपि नरैरति । वन्द्यः सेव्यो भावनीयः समस्कार्या विशेषतः नोपेक्षा दृष्टिमात्रेण तदर्हकृतिमात्रतः। शताग्निष्टोमजफलं नरः प्राप्नोत्यसंशयम् ॥ यतिक्रियाविशेषोऽयं पुत्रपौत्रप्रदायकः । तत्कर्ममध्ये तच्छीर्षभेदनादेव देहिनः॥ अनेकजन्मसंलीनमहावन्ध्यात्वमोचिताः। पुत्रवन्त्यो भवन्त्येव तत्संततिरथात्र हि ओषधिस्तम्बववृद्धि प्राप्नोति परमा तराम् । तच्छिरस्ताडननारिकेललेशस्य भक्षणात् वन्ध्या पुत्रं लभेतैव शतवत्सरजीविनम् । तन्निवेदितवस्तूनां याचनापूर्वकेण ये॥ कुर्वन्ति भक्षणं भक्त्या तेऽतिरात्रक्रतूद्भवम् । सुकृतं प्राप्नुवन्त्येव तदा तदनुयायिनः॥ खननाख्योत्सवे पुण्ये महासुकृतपाकतः । संरभ्ये श्रेयसां हेतुभूते परमदुर्लभे ॥ पदे पदे प्राप्नुवन्ति दर्शादिफलमुत्तमम् । तदाप्लवनतस्सद्यः परं तत्खननाच्छिवात् ।। जाह्नवीस्नानशतकसंभूतं यत्फलं महत् । अवाप्नोत्यवशान्नूनं सत्यमेतन्मयोदितम् ॥ यतेरेकादशदिने पार्वणश्राद्धनामके । संप्राप्ते तु तदा कश्चिद्यश्चिद्वास्यात्सुतेतरः॥ तदात्मानं ततोभूयः अन्तरात्मानमेव च । परमात्मानमुद्दिश्य कर्म तत्तु प्रसाधयेत् ।। पुत्रस्तु तातत्रितयं समुद्दिश्यैव तच्चरेत् । यतेस्तु ब्रह्मरूपत्वाद्ब्रह्मणः सर्वरूपतः।। पित्रादिरूपं वस्खादिरूपं सवं च तस्य वै । संगच्छतेऽतस्तत्सूनुः पितृरूपेण तच्चरेत् ।।
शिष्यादिकस्तथान्य(व्य)श्चेदात्मादित्रयरूपतः। तत्कार्यमिति धर्मज्ञसमयो विधिचोदितः ॥