________________
३६६
श्राद्धकर्मणि नानाविधानवर्णनम् तयोस्तु संगवः काल श्राद्धयोर्न तु तत्परम् । त्वं सोमपितृभिश्चेति श्रद्वयेनाभवेद्यथा। आवाहनं पूर्ववत्स्याद्दाहेऽस्मिन्पितृकर्मणि । बर्हिषदः पितरश्चेति ऋग्द्वयं रोदने भवेत् उपहृताः पितर इति मन्त्रश्राद्ध ऽति संकटे । आवाहनं प्रकथितमन्यत्सर्वं कृताकृतम् ।। तर्पणश्राद्धपरतः नमो व इति मन्त्रतः । नमस्कारः पितृभ्योऽत्र कर्तव्य इति काश्यपः।। इदं पितृभ्यो मन्त्रेण चटकश्राद्धकर्मणि । आवाहने प्रकथितः सर्वमन्यत्तु चोदनात् ।। विज्ञेयमेव विधिना आपत्कालेषु नान्यतः । यदग्ने कव्य मन्त्रेण स्वभुक्तिश्राद्धकर्मणि ॥ आवाहनं स्वयं स्वस्मिन्सम्यगेव विभावयेत् । तत्पिण्डदानात्परतः कृत्स्नाङ्गकरणात्परम् आत्मभुक्तिस्सुविहिता तस्यामापोशनक्रियाम् । स्वयमेवस्वहस्तेन स्वहस्ते वै समाचरेत् उत्तरापोशनेऽप्येवं विधिरुक्ता मनीषिभिः। पुत्रभुक्तिश्राद्धकर्म विशेषत्वं परैव सा ॥ इतिकर्तव्यता प्रोक्ता निखिला ब्रह्मवादिभिः । पादप्रक्षालनकार्यमथवापाद्यकर्म तत् प्रहालं तेन पात्रेण नात्मनो ह्यनिसेचनम् । न विष्टरोऽत्रदेयं स्यादासनस्यैव दानकम त्वमग्न ईडितो मनु मन्त्रेणावाहनक्रिया । प्रदक्षिणानुव्रजने वर्जयेदेव तत्र ते ॥
___ ताम्बूलं दक्षिणा ते तु चोदिते हि कृताकृते ।।
अन्नशेषस्य संप्रश्नः संत्याज्यः किंतु तं स्वयम् ॥ तदुत्तरं विना तूष्णीं इष्टेबन्धुभिराचरेत् । तद्भोजनं यथावच्च शिष्टं सर्व यथा क्रमात् समनुष्ठेयमेव स्याद्रीतिरेवं हि तद्विदाम् । घृतश्राद्धं तीर्थयात्रा दिवसे क्रोशगश्चरेत् ॥
मन्दिरे यस्यकस्यापि स्वीयं कृत्वा स्थलं क्रियात् ।
दानधर्मण भार्यादिद्रव्याणामथवा गिराम् ।। प्रोक्त्यातत्स्वामिनो वापि परस्परमतेन वा । दाक्षिण्यप्रीतियोगाभ्यां तत्र निवर्तयेत्तु तत् सुवर्णेनाथ वामेन शक्तिहीनस्य सा क्रिया । चोदितापदि धर्मज्ञैः दधि श्राद्धं तथैव च क्षेत्रत्यागदिने तत्स्याद्गव्यूत्यां यत्र कुत्रचिन् । नान्दीवन्नापि दैवत्यं तच्च श्राद्धं प्रचक्षते तीर्यश्राद्धं सदाप्रोक्तं धर्मवहुदैवतम् । जीवश्राद्धं पञ्चा ... दैवतं तत्तु केवलम् ।।
विलक्षणं सर्वश्राद्धक्रियाभ्योऽतीव तन्त्रतः । तुर्य विशन्नाश्रमं तच्छ्राद्धं कुर्यान्न चान्यतः ।।