________________
३६४
लौगाक्षिस्मृतिः वेद्यभावे तु शिष्यं वा पुत्रं पौत्रं च विद्व(ट्प)तिम् । आत्मानं भोजयेद्वाऽपि न विप्रं वेदवर्जितम् ॥ वेदिनां पुरतो यो वा कुयुक्तिस्तर्कवादिसः। पुरस्करोऽत्यर्चनया भ्रान्तोऽयं बालिशः स्मृतः॥ पुरतः श्रोत्रियाणां यो वेदत्यागपुरस्सरात् ।
कृतशास्त्रप्रयासान् नृन्भ्रान्तो ह्यर्चितुमिच्छति ॥ स रोगां संपरित्यज्य खरं दुह्यान्न संशयः। कलौ प्रायेण सर्वत्र पुरस्कारो न वेदिनाम् किंतु तत्तर्किणामेव पञ्चम्यन्त प्रधानतः । शूद्रप्रायाश्च शूद्राश्च केवलं शुद्धतर्किणः ।। वेदाढ्यान्ब्राह्मणादेव तिरस्कुर्वन्ति तत्कलौ । कलिधर्मरो न स्याब्राह्मणो वैदिकोत्तमः
कुशास्त्रभाषा शास्त्राणि प्रामाण्येन न विश्वसेत् ।
गानशास्त्राणि कृत्स्नानि नृत्तशास्त्राणि यानि वा ॥ सभारञ्जकशास्त्राणि तालगीतलयश्रिकाः। वैद्यशिल्पोडुशास्त्राणि हीन्द्रजालीयकानि च वैदिकस्तत्परा :सर्वा महावैदुष्यविद्ययोः । प्रसक्तौ तादृशान्सर्वान्वेदमन्त्रबहिष्कृतान् सन्ध्यामन्त्रकविधुरान्पुनः श्रोत्रियरूपतः। तत्तत्कार्येष्वागतांस्तान्साम्येन न तु पूजयेत् पैतृकेषु विशेषेण मौज्यादिषु सवादिषु । श्रौतेषु स्मार्तकृत्येषु न साम्यादर्चयेदति ॥ ब्राह्मणान्भोजयेदिति विधिकार्येषु सर्वतः । सन्तस्ते वैदिका एव मुख्यत्वेन सदा द्विजैः
परिग्राह्याः पुरस्कार्याः न तादृक्छास्त्रधारिणः ।
ब्राह्मणानां धनं वेदा ऋग्यजुस्सामनामकाः॥ तच्छिक्षास्तत्परं श्रौत्रकल्पा सूत्राणि तत्परम् । तत्प्रयोगपरिज्ञानं विनियोगपुरस्सरम् पश्चात्तदर्थजिज्ञासा तदर्थं तर्कचिन्तने । अभ्यासस्स तु कर्तव्यो न तत्पूर्व तु तं नरः अभ्यसेदितिकामेन ब्रह्मचर्येण वाडवः। सौम्यव्रतान्ते तर्कस्य समयो वेदचोदितः ।। आग्नेयकाण्डात्परतो तद्वत्तस्य च मध्यमे। उक्तो व्याकरणस्यैवं मर्याद विधिरव्ययम्
एवं स्थितेऽत्र तां दिव्यां मर्यादा वेदनिर्मितम् । समुल्लङ्घ्य ब्रह्मचर्ये शुष्कतर्कादितच्छ्रमाः॥