________________
३५२
लौगाक्षिस्मृतिः औपासनाग्निपाकेन यदन्नं मोहतः कृतम् । दैवानहंभवेत्तद्धि तादृशी पचनक्रिया ॥ तन्तुमत्यादिनार्याणां तहम्पत्योः पुनर्नचेत् । तत्पैतृकक्रियाणां स्यान्नान्येषामिति निर्णयः
औपाशनाग्नौ पचनभुक्तिकृत्याय सन्ततम् । कात्यायनमखांनांस्यादित्येवं हि व्यवस्थितिः ।। अन्यौपासनपक्कान्नमन्यस्य प्राशने वृथा।
प्राजापत्यः प्रकथितं तस्मात्तं न तथा चरेत् ॥ औपासनान्नं तद्ब्रह्ममात्रस्येव महात्मभिः। संप्राश्यत्वेन कथितमाग्नेयादिषु कर्मसु॥ तद्धविर्देवतार्थाय कदाचिन्नोपपद्यते । तस्मात्पाकक्रियानित्यं लौकिकानौ द्विजन्मनाम्
कर्तव्यत्वेन विहिता सोऽमिः साधारणः परः।
तादृशेनामिना नित्यं दीपपाकादिकाः क्रियाः॥ गृहमेधी साधयीत न गायें गेति सूत्रकृत् । भास्काराष्टशय्येषु नित्याग्निसलिलेषु च ॥ दृष्टभास्करदीपेषु गृहेषु श्रीनमुञ्चति । तामसानासुरान्शाकान्न कुर्यात्तु कदाचन ।। तयैव सूपमन्नं वा न दैवास्तादृशास्तुचेत् । फलमूलानि पत्राणि नै मृताशामुखैस्तथा। खण्डिताननिशमनमुखैर्वा तामसानि हि । तथा तन्मुखपक्कानि सर्वाण्यन्नादिकान्यपि आसुराणीति विद्वद्भिः ज्ञेयानीति स्वमूर्विभूः। अफणकिलभूयश्च तेषां पकात्परं पुनः संभारचूर्णयोगस्य पूर्वमेवेति लाघवात् । भर्जनाख्यक्रियाकार्या साफलीकरणादिभिः॥ शून्यत्वग्भिर्माषखण्डैः तैलाज्य मुखतापितैः । तत्क्षेपणविशेषेण तक्रिया करणात्परम्
निश्शेषिते तत्सलिले पुनः कीलालयोजनम् । कृत्वाऽनुरूपं संभारं सम्यक् चूर्णनिपातनात् ॥
आलौढ्य दायत्नेन यत्पक्वं क्रियते हि तत् ।
. शाकानामेव सर्वेषां दैविकंस्यात्परंशिवम् ।। न चेदेवं शाकपाको राक्षसोनात्र संशयः । राक्षसो निखिलोलोके तामसश्चेति गौतमः
भर्जितास्ते मापखण्डा भुक्तिकालेश्मसंनिभाः।
दन्तानां घट्टनादुःखहेतवोऽमी भवन्ति हि ॥ तस्मात्तधु क्तशाकास्ते देवयोग्याः कदाचन । भवेयुरेव नितरां तादृक् पक्वं ततस्त्यजेत