________________
३५१
भोजन विधिवर्णनम् दीपयेदेव "" शमनाय न चेन्महान् । अपमृत्युः प्रजायेत संपदोयान्त्यधोगतिम् ।। सजोषा इन्द्र सुमहामन्त्रमेतं तु जृम्भणे । शतवारं जपेद्विद्वांस्तद्दोषस्तेन नश्यति ॥ मूत्रस्य स्खलनेजाते भुक्तिकाले तु देवतः । पुरीषस्य च तत्पश्चात्स्नात्वाचम्य विधानतः अन्नत्यागात्परंसद्यः त्यक्त्वापोशनमुत्तरम् । जपित्वाहं स गायत्रीमष्टोत्तरशतं ततः।। पूर्षसूक्तजपात्पूतो भवेदिति यमोऽब्रवीत् । अमृतेति च मन्त्रेण घुत्तरापोशनात्परम् ।। पीतार्धपयसानित्यं नारकान्दोषयेन्नचेत् । ध्रु वंते प्रशपन्त्येनं नारकाः जलकाक्षिणः। पुरातेषां सुरज्येष्ठः पिपासाशमनाय वै । सलिलं कल्पयामास भुक्त्यन्तेऽत्रद्विजन्मनाम् पीताधू तादृशं ब्रह्मा पीयूषादधिकं परम् । कारवेति च मन्त्रेण तद्देयं तर्जनीमुखात् ॥ अप्राद्वाङ्गुष्ठयोगेन तेनश्रेयो महद्भवेत् । भगिनीजननीभार्या स्नुषापुत्र्यपि हस्ततः ।। ...
शस्यतेऽनुदिनभुक्तिः मित्ररिष्टश्च बन्धुभिः ।
अन्नार्थिभिः क्षुदातेर्वा भुक्तिवस्त्वैककामुकैः॥ समीक्षितस्सन्कुर्यान्न भोजनं सर्वथा नरः। यत्कांक्षितं वस्तुभुक्तौ स्वयमश्नाति भोजने त " दत्वैव तस्मैना तज्जीणं नैति किं पुनः । पिचण्डसंस्थितंतद्व विषमेव भवेद्धृवम् पचनं प्राङ्मुखकृतमुदङ्मुखकृतं तु वा । देवयोग्यं भवेत्सर्वं न चेदासुरमुच्यते ॥ पावकं नित्यपाकाय स्वकीयं परिकल्पयेत् । यदि न स्यात्स्वकेगेहे दैवादग्निस्तदापुनः॥ श्रोत्रियागारतोग्राह्यः श्रोत्रियस्यत्वसंभवे । सामान्य ब्राह्मणगृहात्तादृशस्याप्यसंभवे ।। कुग्रामे कुत्सितेदेशे शूद्रगेह समाकुले । तद्गृहादग्निमादाय भूमावेकत्र तं शुचिम् ॥ एधयित्वान्यत्रभूयः यैः कश्चित्काष्ठजालकैः। शुष्कैस्तृणविशेषैर्वा प्रज्वाल्यैनं विभावसुम् तस्मात्संगृह्य भूयश्च कृत्वैनं बलवत्तरम् । चुल्लिकायां प्रतिष्ठाप्य तेन पाकादिकक्रियाम्॥ साधयेदेव विधिना यदि देवालयादिना । तत्समाहरणंकुर्यात्तदा तूष्णीं न चाहरेत् । दत्वैव किंचित्क्रमुकं फलं ताम्बूलमेव वा । शलाटुतण्डुलान्वापि पश्चाद्वहिं समाहरेत् ।।
तथागतेभ्यो बुद्धभ्यो जिनेभ्यो नैव सर्वथा ।
. देवलेभ्यो विशेषेण कुण्डादिभ्यो न तं हरेत् ॥ पाणिना मथितो वह्निः अयोदण्डेन वा तथा । विषवृक्षादिसंभूतः श्मशानाग्निसमोमतः