________________
३५०
लौगाक्षिस्मृतिः नित्यं सार्षपशाकानामभिधारत्परं द्विजैः। परिवेषणमित्युक्त पिष्टकालरसात्मना । पश्चाल्लवणशाकानामपक्कानां क्रमेण वै । पक्वानामपि शाकानामन्नस्याज्यस्य पूर्ववत्
परिवेषणमन्ते स्यात्पूर्वस्येति शिवोऽब्रवीत् । परिषेचनतः पश्चाञ्चित्रादीनां विधिः परा॥ तेनान्नेनैवकर्तव्या सा त्याज्या सद्य एव वै।
चतुर्थ्यन्तेनमोऽन्तेन स्वाहान्तेनापि वाम्भसा ॥ सिक्तभूमौ सुविहिता न शुष्कायां कदाचन। अपोशनाम्भसामन्यः प्रदातास्यात्स्वयंकदा न स्वीकुर्यादितिमनुर्विष्णुत्र्यङ्गिरसांमतम् । आपोशनद्वयजलं स्वयमभ्यञ्जनं तथा ।।
आयुष्कामो न गृह्णीयान्न कुर्याश्च विचक्षणः । प्राणापानव्यानोदानसमानानां क्रमेण वै ॥ स्वाहाकारां ततः प्राणाहुतीः सम्यक् समाचरेत् ।
मौनेन भोजनं कुर्यात् या 'कापि तत्र वै॥ क्रियाभिनयचेष्टाभिः तत्कायं साधयेद्बुधः। अथवा हरिगोविन्दशिवशंकरपूर्वकः ।। नामभिस्सुमुखोमुक्तिं कुर्यादेवेति वै मनुः । पूर्वमुक्तौद्रवः कार्यः मध्वाज्यादिरसैः परैः।। मध्यभुक्तौ च काठिन्यं चूर्णैः माषादिकारितैः । अन्तेदध्याभिभूयः कार्य एवेति भोजने नियमोबाहटप्रोक्तः सर्वलोकहिताय वै । स्वीकार्यः स्याद्विशेषेण ब्राह्मणानां महात्मनाम् भुक्तिकाले भाषणस्य प्रसक्तौ यदिभूर्भुवः । सुवश्चापि जपेद्विद्वां स्तदाभाषणसंख्यया ॥ वृथाकलहचापल्यभाषणादिषु तत्परम् । आभिर्गीभिर्मनुजपमिदं विष्णुस्व्यम्बकम् ।।
कुर्याजपेत्षष्टि(वा)सारं नोचेत्स्यात्किल्बिषी नरः ।
क्षते पाने जम्भणे वा क्रियमाणे तु भोजने ॥ अवदचसंप्राप्ते भोजनात्परमेव वै । श्रीमं भजतु सुमहान्मनुमष्टोत्तरं शतम् ।। जपेदेव विधानेन पाने तस्मिन्निदं परम् । चित्तं प्रकथितं सद्भिरलक्ष्मीर्मे तदुत्तरम् ।। जपेदष्टसहस्र वै तस्याः भूम्यास्ततः परम् । गोमयालेपनंकृत्वा रङ्गवल्यादिरञ्जनात् ॥ परमेव विधानेन श्रीसूक्तेनोक्षणादथ । त्र्यम्बकमर्नु जप्वा तत्र दर्भेस्तृणरपि ।