________________
भोजनविधिवर्णनम्
३४६
घेनूनांदक्षिणाभिश्च गव्यानां प्राशनात्परम् । निष्कृतिर्विहितासद्भिः न चान्येनैव वर्त्मना यञ्चपाणितलेदत्तं यत्तु फट्कारसंयुतम् । प्रसृताङ्गुलिभिर्यथ तस्य गोमांसवचरेत् ॥ शब्देनापः पयः पीत्वा शब्देन घृतपायसौ । शब्देनापोशनंपीत्वा सुरापानत्रतं चरेत् हस्त्यश्वरथयानोष्ट्र स्थानेषु न चरेद्बुजिम् । चण्डालवाटिकाराद्वा राजकस्थानतोऽपि वा श्मशाननिकटेवापि न कुर्यात्तद्भुजिक्रियाम् | शयनस्थो न भुञ्जीत देवालयगतोऽपिवा नार्द्र वासा नार्द्र शिखः न च यज्ञोपवीतवान् । नैकवासा न नमो वा नापि कच्छाबहिष्कृतः ॥ विवदन् बहुभाषीसन्न कुर्बीत भुजिक्रियाम् । अन्तः श्यावप्राममध्ये सन्धौ सान्ध्यद्वये तथा ॥
चतुष्पथे निरुद्धस्सन्न कुर्याद्भोजनं सदा । द्विवाद्विभोजनं वापि यामिनीभोजनद्वयम् ॥ न कुर्याद्ब्राह्मणः स्वस्थः कुर्याच्चेञ्चान्द्रकृद्भवेत् । परिवेषणतः पश्चाद्गायत्र्या प्रोक्ष्य चोदनम् ॥
परिषिच्य च सत्येन पुष्करेण ततः पुनः । स्वीकृत्यापोशनं तेन सत्यं त्वामनुना भुजिः सदा द्विजानां विहिता प्राणाहुति कृतेः परम् ।
अभिधारितभित्सायाः परिषेचनिकक्रियाः ॥
प्रकर्तव्या ब्राह्मणेन नित्योयं विधिरुच्यते । परिषेचनतः पश्चात्तदन्नमभिधारितम् ॥ शुनोच्छिष्टमितिज्ञेयं तस्मात्तत्परिवर्जयेत् । घृतेनैवाभिधारः स्यात् घृताभावे तु केवलम् तैलेन वा प्रकुर्वीत यदि तस्यापि दुर्लभे । पयसा तत्प्रकुर्वीत तस्यापि यदि दुर्गतौ ॥ दध्ना तक्रेण वा सर्वाभावे तु सलिलेन वा । अभिघारः प्रकर्तव्यः तथान्यन्नैव भक्षयेत् तदुत्तमं गव्यमेव माहिषं मध्यमं परम् । अजस्यापि तथैवस्यादाविकत्वधमाधमम् ॥ सर्वाण्यन्नानि गव्येन युक्तानि यदि तानि च । उत्तमत्वेन चोक्तानि दध्यादीन्यपि पण्डितैः ।
सन्ततं भुक्तिकालेषु यदि पत्राणि भुक्तये । स्युस्तेषु पूर्वमाज्येनाभिधारो विधिचोदितः सौवर्णे राजते कांस्ये नाभिघारो मनीषिभिः । कर्तव्यत्वेन विहितः सोऽयं वर्णेषु शस्यते