________________
लौगाक्षिस्मृतिः
कटाहंवापिकौम्भंवा सलिलं शूद्रहस्ततः । समुद्धृतं क्षुद्रकुल्यात्प्रसृतं दूरगं तु वा ॥ न स्पृशेदेवनित्यं तदस्पृश्यं शूद्रयोगतः । कदाचिदापदिपुनर्मूत्रोत्सर्जनशुद्धये ॥ अथवातन्नकरतः संस्पृशेद् बुद्धिपूर्वकम् । स्पर्शनात्तस्य नीरस्य ब्राह्मणस्य विजानतः ॥ सचैलःस्नानमेवस्यात् पादस्पर्शनसंभवे । अवशान्मार्गमध्ये तुन स्नानं किंतु पादयोः ॥ शुद्धोदकक्षालनंस्यात्तदोषविनिवृत्तये । पादप्रक्षालनं नित्यं शुद्धनैव हि पाथसा ॥ प्रकर्तव्यं प्रयत्नेन नाशुद्धेन कदाचन । शूद्रोदकंपरित्यज्य) चूर्ण ताम्बूलकारणात् ॥ न स्वीकार्य बुद्धिपूर्व स्वीकारे पञ्चगव्यकम् । सौवर्णे रजते ताम्र े कांस्ये लोहमयेऽपिवा संस्पर्शदोषो न भवेत्तोयपूर्णे ( घटे तथा ) । ब्राह्मगोबुद्धिपूर्वेण यावत्सलिलपात्रकः ।। तावचण्डालादि सामीप्यादिस्पर्शो न विद्यते । भोजने निकटेन्यस्य जलपात्रो भवेदपि दूरविन्यस्तपात्रः स्यान्नित्यं मूत्रपुरीषयोः । स मन्त्रे प्रोक्षितेनीरैरपि प्रक्षालितेऽपिवा मोहेन भोजनं कुर्यात् पुनः स्नानेन शुद्ध्यति । अमत्रे मण्डलस्थे चेद्भोजनं यदि वाडवः करोतिभुक्तेपुरतः अष्टाविंशतिसंख्यया । अभिमन्त्रय जलंहस्ते सावित्र्या प्राशयेन्न चेत् सन्ध्यादि कर्मणांयोग्यो न भवेदेव तत्परम् । भूमौ संस्थापितेपात्रे यन्त्रिकायां महीतले यद्वावा वामहस्तेन पात्रमुद्धृत्य भोजयेत् । लवणं व्यञ्जनं चैव घृतं तैलं पयो दधि ॥ लेह्य' पेयं च चोष्यं च हस्तदत्तं परित्यजेत् । दर्यादेयं घृतादिस्यात्समस्त व्यञ्जनं तथा उदकं यदपक्वान्नं यो दर्ज्यादातुमिच्छति । स भ्रूणहा सुरापश्च स स्तेनो गुरुतल्पगः चण्डालमुदकं सूर्ति श्वानकुक्कुटरासभान् । भुञ्जानो यदि पश्येत्तु तदन्नं संपरित्यजेत् केशकीटावपन्नं च सु (मुखमारुतवीजितम् । अन्नं तत्रापनिन्द्यं स्यात्तस्मात्तत्परिवर्जयेत् चण्डालपतितोदक्या सूतिकामजान्त्यजैः (१) ।
हिंसकश्वपचाद्यैर्वा तेषां शृण्वन्वचांसि वा ॥
३४८
भुञ्जीतप्रासमात्रं तु दिनमेकमभोजनम् । तत्पीडितस्तन्निषिद्धस्तैस्साकं निगलेवसन् ॥ तद्गृहेष्वेवनिवसन् तद्गृहाः "ति ताडितः । तत्रैव जलपानादि करणात्प्राणधारणम् ॥ कुर्वन् पश्चात्तु कालेन मुक्तश्चापाप्रमज्जनैः । अनुज्ञया ब्राह्मणानां दक्षिणादानपूर्वतः ॥ तत्तत्कालानुगुण्येन तत्तद् श्रंशानुगुण्यतः । शतादिस्नान करणैः पुनः संस्कारवर्त्मना ॥