________________
सदाचारवर्णनम् राझोऽभिषेकदिवसः स्मृतश्चेत्तदहः परम् ।
तस्मिन्स कुर्याद्विधिना तदिष्टारण्यं सुभोजनम् ॥ अत्यन्तलाभो यस्मिन्स्यात्तस्मिन्नहनि तादृशे । नामकेति प्र ... तादृशं चरेत् ।। भोजनं तु न विशेष कुर्यादिति विचक्षणः । प्राहुरेव महात्मानः द्वितीयाश्रमसंस्थितः। भुक्तिपात्रे यथा लेपा भवेयु ... । तल्लेपकामाः कामाद्याः तेषां तृप्त्यै तदाचरेत् खान्नभुक्तौ तथा कुर्यान्नान्यभुक्तौ कथंचन । न तथा करणंयुक्तं भुक्तिधर्मास्स्वकेगृहे यथेच्छया ... च्छया । दुर्गतोदन ... तु किंचि ... तु॥ तत्र वस्तुपरित्यागे दुर्गतो दुःखितो भवेत् । बन्धुमित्राश्चगेहेषु भुक्तिकालेषु वस्तुना ।। रति त्यागेऽपि ... ।श्राद्धभुक्तौ विशेषाय शाखदृष्टः सनातनः ।। सर्वसशेषमश्नीयाघृतपायसवर्जितम् । मधुदध्नोर्विकल्पोऽत्र कथितो गौतमादिभिः॥ न पिबेन्नचभुञ्जीत द्विजः सव्येन पाणिना । (वामह)स्तेन च तथा शूद्रानीतजलं त्यजेत् अवशात्तेन संस्पृष्ट पात्रगं सलिलं तथा । दूरात्परिहरेत्सद्यः तादृशं क्षालयेच तत् ॥ घृतमादौपरिग्राह्य भुक्ति "मयावयेत् । घृतेन विद्यते तृप्तिः पिबेत्पात्रान्तरस्थितम्॥ एकधारानिपतितं द्रव्यवस्तु परित्यजेत् । पात्रान्तरात्तत्स्वीकार्यमन्यथोच्छिष्टभोजनः।। प्रभवेयुर्हि निखिलाः तत्पङ्क्तौ येऽस्थितास्तुते । शिष्टपात्रगतंतञ्च दूरात्त्याज्यं मनीषिभिः पीतशेषं पिबेन्नैव परस्य स्वस्य वा जलम् । उच्छिष्टमेव विज्ञेयं भोजनं मुखमारुतात् ॥
पिबतो यः पिबेत्तोयं तत्तोयं तदनन्तरम् ।
पिबतः पक्तिमध्येषु संत्याज्या निन्दितास्तु ते ॥ मुखमारुतदुष्टान्नस्थलपात्रे पुटादिकम् । उच्छिष्टं निखिलंज्ञेयं न ग्राह्यतादृशं हि यत्।। तत्पिवेद्यदिमोहेन द्विजश्चान्द्रायणंवरेत् । पञ्चगव्यं च विधिना तदोषस्य निवृत्तये ।। पाणि पाणि तलापर्वा ब्राह्मणो न पिबेत्कचित् । सुरापानेनतत्तुल्यं इति सर्वे महर्षयः न मुखेन पिबेत्तोयं तदानाञ्जलिना कचित् । तथैव वामहस्तेन न धाराभिः कथञ्चन ।। उद्धृत्य वामहस्तेन यः पिबेब्राह्मणोजलम् । सुरयातजलंतुल्यं नत्वे(प)यमिति सन्ततम् न वास उदकंवर्ष सलिलं सन्ततोदकम् । उद्घाटितं जलंवापि न स्वीकुर्याद्विजोत्तमः