________________
२३
धेदाध्ययनवर्जितस्य पुनर्वेदाधिकार वर्णनम् विशदायाखिलानां च कारित कृपया तहा। भरद्वाजादिभिः शिक्षावेदार्थविशदाय व ॥
तदा तत्पाठसामीचिन्यस्य पूर्व कृतं हि सा ।
तथा वेदेषु केषांचित्पदानां ग्मादिरूपिणाम् ।। तथा जातीयकानां च कल्कशल्कादिपाथसाम् । हरो भर्गपरस्सर्वशखसंगो नृचक्षसाम् ओजस्लेजो यशोवर्णबलादीनां च केवलम् । श्रुत्यन्तीनगूढार्थनिर्णयाय दयानिधिः ।। स्कन्दश्चकार भगवान् पुरा कल्पान्तरं पुनः । एतेषां किल वेदाङ्गत्वेन सर्वनिरूपणम् ॥
वेदाङ्गप्रशंसा अङ्गाङ्गिनोरभेदत्वादेतान्यपि महान्त्यलम् । साक्षाद्व इति प्रोचुर्जगत्यस्मिन् हि केचन महोपकारकत्वेन चैतेषां ग्रन्थमात्रके । वेदांगत्वेन नितरां संस्तुतिहिं स्मृताखिलैः॥ वेदवाक्येषु वेदानां तत्र तत्र कचित्कचित् । संजाताजग्निऋचेति श्रूयते किल यद्यपि ॥ अथापि तस्य वेदस्य नित्यस्य ब्रह्मरूपिणः । नितरामतिगूढस्य शेयस्य तु तदा तदा ।। कल्पादिषु तदाऽविर्भावो हि तत्तन्मुखेन तु । नैतेन जननं तेषां कर्तृत्वमपि तस्य न ॥
तादृशस्यास्य नित्यस्य सर्वशास्त्राण्यपि स्वयम् ।
पुराणस्मृतिकल्पादिग्रन्थजालानि केवलम् ॥ तदर्थनिर्णयायैव प्रवृत्तानीति सूरिभिः । कथितानि महाभागैः नान्यथैषां स्थितिः परा तस्मादिदानीं यः कश्चित् वेद तत्कर्म तत्परः । तदर्थज्ञानसंपन्नः शुद्धश्चाश्चल्यवर्जितः
' कृतार्थतामियादस्मिन्नर्थे वच्मि न संशयः ॥
वेदाध्ययनवर्जितस्य पुनर्वेदाधिकारः पुनरन्यत्प्रवक्ष्यामि वेदाध्ययनवर्जितः । पित्राद्यशिक्षितोज्ञानाज्जातकर्मादिसंस्कृतः ॥ सन्ध्यामात्रप्रधानश्च पुनःकालेन केनचित् । संगत्या महतां पुंसां श्रीमता दर्शनादपि। श्रवणाहवयोगेन तत्रतत्रावशात्पुनः । वेदतत्कर्मतत्कर्मितदर्थसुमहामनाः॥ सुशिक्षितस्वकमैकमन्त्रमात्रक्रियापरः । पूर्वस्वाकृतवेदाध्ययमतप्तमहामनाः ॥ वेदकर्मस्वतिमनाः पराधेनश्च सन्ततम् । स्वशक्त्युत्साहानुकूलकर्मकृदुब्रह्मचिन्तनात्।।