________________
मार्कण्डेयस्मृति ये वेद कर्मणां मध्ये पौरुषप्रन्थमध्यगान् ।
अवशाद्वाक्यखण्डांस्तान् प्रवदेत्कर्म तद्धृवम् ॥ वैकल्यं प्रतिपद्यत विषयुक्तमिवामृतम् । ते वेदा ब्राह्मणा गावः मन्त्रादर्भास्तिलास्तथा
तीर्थानि सरितोऽम्भांसि स्वतः शुद्धानि सर्वदा ।
स्वतः सर्वोपकाराय स्वतन्त्राः सर्वदा सताम् ॥ हिताय हि प्रवर्तन्ते ब्राह्मणः सततं सदा । यथा वेदस्तथा वन्धः वेदो यस्य धनं स्मृतः।।
स एव मुक्तये नित्यं यतते सास्य सिध्यति ।
शूद्रादयस्तु तद्भिन्ना मुक्तिकामा अपि स्वयम् ॥ चया प्राप्य विप्रत्वं तेषां शुश्रूषयैव हि । यत्नाज्जन्मान्तरे तत्त्वं संप्राप्य तदनन्तरम् ।।
वेदानधीत्य कर्माणि तदुक्तानि विधानतः। कृत्वा सम्यक् तन्महिम्ना चित्तशुद्धरेनुत्तरम् ।। श्रवणादिमुखेनैव प्राप्नुवन्ति कृतार्थताम् ।
साक्षाच्छूद्रो मुक्त इति ब्राह्मणो वान्य एव वा ॥ वेदोक्तमार्गमिन्नेन यथा वै येन केनचित् । मुक्तोऽभूद् भवतीत्येतद्वाक्यं हि मृगतृष्णिका वेदांगत्वेन कासाचिद्विद्यानां प्रतिपादनम् । तासामत्यन्तमाहात्म्यप्रतिपादनमात्रके ॥ तात्पर्यमितिविहोयं न तु प्रामाणिकं हि तत् । अर्थवादैकमात्रस्य स्वतात्पर्ये सदातराम् एवाभावतः किंतु अत्यन्तातिशयार्पणे । तस्य तात्पर्य मेवेति शास्त्राणां तत्त्वमीरितम् ॥
तथाहि तच्च सम्यग्वो विशदाय निरूप्यते ॥
वेदाङ्ग विस्तारः पतञ्जलिकतं तत्तुशास्त्रं व्याकरणं महत् । आपस्तम्बादिभिः कल्पाः सूत्रकारविनिर्मितार
'इहंबिड्यादिभिस्तैस्तच्छन्दश्शास्त्रां च कल्पितम् ।
ज्योतिश्शास्त्रं तु सुमहान महामुनिसुरोत्तमैः॥ विवाकरमधुश्छन्वमुखैरन्यैश्च कारितम् । निरुक्तमीश्वरेणैव मृगानां विशेषतः।।