________________
वेदातिरिक्तमुक्तिसाधननिन्दावर्णनम्
२१
कालेन महताऽत्यन्तप्रयासेन परं त्वियान् । सुमहान् भव इत्युक्तः प्रयासेन विनैव हि ॥ वेदोक्तनित्यकृत्यैस्तु परा सिद्धिरितीयती । हृदा सा सूक्ष्मतो माझा एवं सत्यत्र यो नरः सायुज्यनामकां(मिकां मुक्तिं कर्मणा येन केनचित् । स्त्रीशूद्राणां प्रवदति मूढो नात्र संशयः शूद्रादीनां वेदानधिकारत्वनिरूपणम्
अपौरुषेयवेदस्य साक्षान्नारायणात्मनः । पौरुषाणां पुराणानां उभयोर्मुक्तिसाधने ॥ समाने सति सामर्थ्य को भेदः स्यात्परोऽत्र वै । यथा पौरुषशास्त्रेषु शूद्रा (योग्या) गुरोर्मुखात् ॥
श्रवणे योग्यता तद्वद् वेदश्रवणयोग्यता । सुखेनैव भवेन्नूनं एवं सत्यत्र केवलम् ॥ वेदाक्षरश्रवणतः कपिलाक्षीरपानतः । ब्राह्मणोगमनाच्चापि सद्यः शूद्रः पतेदधः ॥ एतादृशमिदं शास्त्रां कल्यन्ते सर्वसंकरे । दृढं सर्वत्र सुदृढा नाशमप्राप्य सुन्दरम् ॥
वेदप्रशंसा
सर्वग्राह्यं सर्वसमं प्रसिद्ध राजते किल । यो वा वेदाधिकारी स्यात्स मुक्तेरधिकार्यपि यो वेदानधिकारी स्यान्नयं मुक्तेस्तु भाजनम् । वेदाक्षरश्रवणतो निष्कृतिर्यस्य घोरतः तस्य मुक्तौ तथात्वं स्यादेवं व्याप्तिस्सुनिश्चिता ॥
वेदातिरिक्तमुक्तिसाधननिन्दा
वेदोक्तमार्गभिन्नेन पथा यो मुक्तिमुत्तमाम् । कर्मादिनापि वदति सुमहापापकर्मणा संप्राप्य चित्ते मालित्यं वदत्येवेति तत्रहृन् । वेदेन तुल्यं वदति पौरुषं प्रन्थजालकम् ॥ उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता । ब्रह्मविद्यासमं विद्याभासं शास्त्रादिजालकम् यस्सदस्सु व्यवहरेत्स नूनं ब्रह्मघातकः । अवेदं यो वेदमिति प्रलपेदल्पबुद्धिकः ॥ स शूद्रत्वमवाप्नोति स एव न संशयः । ब्राह्मगेन समं शूद्रं प्रवदेशिन्यचर्यया ॥ तथा शूद्रं विप्रसमं वदेत्सचर्ययापि वा । तावुभौ धार्मिको राजा छित्वा जिह्वां प्रमापयेत् यतस्तावन्यबी जैकजनितौ पापवित्रौ । यो वेद कर्मभिस्साम्यं ज्योतिष्टोमादिभिः परः समत्वेन व्यवहरेद्गाग्निजमखादि कान् । स पूर्व जन्मवृषलो निश्वेतव्यो मनीषिभिः ॥