________________
मार्कण्डेयस्मृतिः
यत्किंचिदर्थबोधाय कदाचित्परिकल्प्यते । स्त्रीशब्देनात्र विदुषां आहिताग्नेश्च यज्वनाम् ॥ कुलीनानां वेदिनां च न पत्न्यः स्युः कदाचनः । तेषां सदा कर्ममध्ये तत्तन्मन्त्रार्थपूर्वकम् ॥ बोधनस्य विधानेन वाचनेनास्य शास्त्रतः ।
आहिताग्निपत्नीनां प्राकृतभाषानिषेधः
न युक्ता लौकिकी भाषा दिव्यायां यदि केवलम् | यत्नात्सामर्थ्यावैकल्ये कराभिनय ईरितः ॥
न तु प्राकृत भाषा सा विहिता वा कदाचन । शूद्रशब्देनात्र परं ये सन्तो द्विजसंश्रयाः तेषामपि विशेषेण महनीयमपूर्वकम् । नित्यक्षुर विधानेन तत्कालस्नानचोदनात् ॥ सिद्धादिमन्त्रविधिना प्रत्युक्तिप्रतिपादने ।
तन्माक्षायीत्यस्य परं परिशानस्य तस्य वै । अत्यन्तावश्यकत्वेन न गृह्यन्तेऽत्र तादृशाः तद्भिन्ना अत्र संग्राह्यास्तादृशानां विशेषतः ।
भाषाकृतं तदाभासशास्त्रां तच्छिल्पिभिः कृतम् ॥
विनियुक्त नृत्तगीत पटुचाटुसमं यथा । तच्छास्त्रवाक्यमवशात्सत्कर्मणि परस्य वा ॥ स्वस्य वा गलितं वेत्तु मुखतो नाशमेति तत् । एवं सत्यस्य तु च्छायाः प्राकृतायास्तथाविधे ॥
भाषायाः सुमहज्ज्ञाने बोधकत्वं कथं भवेत् । एवमेव प्रकथितं पुराणागमयोरपि ॥ तद्ब्रह्मज्ञानहेतुत्वं कुत एवेति चेत्पुनः । एवमत्र प्रवक्ष्यामि त एते पौरुषा यतः ।। सर्वपौरुषमात्रस्य देवस्य भक्तिबोधनात् । तन्मात्रस्यैव नितरां सिद्धिरित्येव सूरिभिः ॥ रचितो निश्वयः सर्वैस्तद्द्द्वारा तदनन्तरम् । कृते तद्देवभजने तत्प्रसादेन तत्परम् ॥ चित्तशुद्धिश्चिरात्स्याद्धि यथा तैर्नित्यकर्मभिः । अत्यन्तसत्वरादस्य चित्तशुद्धिर्भवेत्तदा तपःकृच्छ्रादिभिर्न्यनं (भवे)देव वच्मि वः । सर्वाण्यपि च कर्माणि तपः कृच्छ्रादिकान्यपि कैवल्यहेतुकान्येव तदर्पणधिया यदि । कृतानि कामनां त्यक्त्वा तानीमानि वदामि वः