________________
संस्कृतभाषामौनविधिवर्णनम् अज्ञानकारकाण्येव तस्मात्तानि परित्यजेत् । ब्रह्मज्ञानाय यतते यो वा लोके विचक्षणः अनृतात्सत्यवाक्येन मानुषाववाक्यतः । दैदि)वीं वाचमितिश्रुत्या तदर्थपरिवृद्धये ॥
क्रमेणानृतसंत्यागं कृत्वा सत्यं समाश्रयेत् । तथैव मानुषी भाषां त्यक्त्वा दिव्यां समाश्रयेत् ।।
प्राकृतभाषोच्चारणनिषेधः दिव्या भाषां परित्यज्य प्राकृतां प्रवदेद्यदि । निपतेत्प्राकृतोमूढः महाप यथा जडः नितरां दिव्यभाषां हि प्राकृतोऽपि शनैःशनैः । यत्नं कृत्वा महान्तं तं तामभ्यस्य दिने दिने कृतकृत्यो भवेन्नो चेत्तया प्राकृतभाषया । पदे पदे प्राकृतः स्यात्तदा जन्मनि जन्मनि ।। एवं सत्यपि यो मोहाद वाद्विद्वान् भवन्नपि। भाषा(सु)प्राकृतास्वेव निष्ठश्चेत्याकृतो भवेत्
संस्कृतभाषाविधिः मौनकालषु नितरां कर्मकालेषु दैविके । पैतृके वा पावकेषु दिव्या भाषां वदेवतः॥
दिव्यभाषापरिज्ञानविकलो यः स तु स्वयम्। .
स्वीयामेव वदेद्भाषां न त्वन्यां मनसा पि च ॥ कर्मकालेषु पुण्येषु मौनकालेषु वा तथा । दिव्यया भाषया नूनं संभाषेतैव धर्मतः ।
. .. मौनविधिः स्त्रोसंगानन्तरं तस्मिंस्तत्प्रक्षालनपूर्वके ! काले मूत्रपुरीपोत्सर्गयोवाचामपूर्वके ।। पुनरेतादृशेष्वेषु कुर्यादभिनयेन वै। संज्ञया चेष्टया वापि स्वाभिप्रायं परस्य तु॥ काष्ठमोनेषु दीक्षासु वीक्षणेनैव नान्यथा । न कार्यमेव तच्चापि तत्र सन्ध्यासु केवलम् ।। देवभाषार्दिका लोके वेदशास्त्रमयी च सा । तस्यामेवरतो नित्यं देवसायुज्यमाप्नुयात.
. ज्ञानं दिव्यां शिवां भाषां भाषाविरचितेषु वै।
शास्ोपु कुरुते श्रद्धां स द्विपाद्गर्दभः स्मृतः।। भाषया रचितं शास्त्रों स्त्रीशूद्राणामचेतसाम् । मन्त्रमात्रानधिकृतो कर्मस्वनधिकारिणाम्