SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३३८ लौगाक्षिस्मृतिः भवन्त्येवेति विबुधाः प्रोचुस्ते कपिलादयः । संस्कारदुष्टं यच्चान्यत् क्रियादुष्टं तथैव च स्वभावदुष्टं नाश्नीयादनापद्यग(तस्सदा । संस्कारदुष्टं तद्ज्ञेयं द्विजदेवाद्यनर्पितम् ॥ प्रसूतयेऽभ्यागतानां दरिद्राणां स्थलार्थिनाम् । यत्रकुत्राशरण्यानां स्थलादीनां प्रदानतः पृथक्फलं प्रकथितं राजसूयस्य तन्महत् । न गर्भपीडा तुलिता पीडान्या सर्वदेहिनाम नैवेति साक्षाल्लोकेशः भगवानाह भारतीम् । तत्पीडा शान्तये यो वा सहायत्वेन संस्थितः।। कृपालुः कुरुते सायं तस्मै तां जन्मजन्मनि । दुहितृत्वेन जानन्ति तस्याः सोऽयं पिता स्मृतः॥ तमेनं देवपत्निस्तु सेना धेनादयः पुनः । साक्षालक्ष्मीर्भगवती गिरिजापि सरस्वती ॥ प्रीत्या स्वजनकत्वेन मन्यमानाः शिवंकराः। तन्मनोरथपूर्त्यर्थं जागरूकाः प्रतिक्षणम॥ तिष्ठन्त्येव प्रवक्ष्यामि वरदाश्च दिने दिने । ता एव पीडां तां देव्यः जानते तत्यमप्यति . यतस्तस्माद्देवपल्यो सर्वलोकैकमातरः। अतोऽस्य कामानखिलान्प्रयच्छन्ति रमादिकाः॥ . नानदानसमं दानं जगत्तस्मिन् हि तिष्ठति । यतस्त्वेतत्तृप्तिकरं जलदानं च तादृशम् ॥ जलदाता प्राणदःस्यान्मनोमात्रस्यकेवलम् । अन्नदो भवति श्रीकः तस्मादन्नं ददन्नरः सर्वदाता भवेन्नूनमन्नाजीवा भवन्त्यपि । अन्नं ब्रह्म समाख्यातं यतो भूतानि तेन वै जायते चापि वर्धन्ते दाता ... सन्निधिः। तदातुः फललेशस्य माहात्म्यं निखिलं विधिः॥ वक्तुं युगसहस्रण शक्रो नैव भवेत्खलु । तद्भोक्त मभमथवा (?) पद्मपत्रपलाशके । यथारुचि यथाशक्ति स्वीकुर्यात्तद्विचक्षणः ॥ पद्मपत्रपलाशेषु गृहिणां भोजने सुखम् । ब्रह्मचारी यतीनां तु चान्द्रायण फलं लभेत्।। वटाश्वत्थार्कपर्णेषु कुम्भीतिन्दुकपर्णयोः। कोविदारकपत्रे वा गृही भुक्त्वोपवासयेत् ।। पलाशमध्यपत्रेषु यो भुक्त मानवोत्तमः । तत्समीकरणं कृत्वा प्राजापत्यं दिने दिने य इच्छत्यूर्ध्वगामित्वं ब्रह्मचारी यतिस्तु वा । पद्मपत्रेषु भोक्तव्यं मासमेकं निरन्तरम् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy