________________
३३२
लौगाक्षिस्मृतिः तद्भक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् । सोऽयं यत्युपकारोऽपि तादृशो ब्रह्मतृप्तिकृत्
धर्माविरोधतः सर्व तद्यात्तद्याचितं परम् । काषाय दण्डमात्रेण यतिः पूज्यो हि जन्मनाम् ।। यति निन्दा कुलनी सा न कार्यातो द्विजन्मभिः । प्रसक्तमप्रसक्त्यालं देवं संपूज्य तत्परम् ॥
वैश्वदेवम् वैश्वदेवपरो भूयात् नित्यं च ब्राहणोत्तमः।
अन्नस्य चात्मनश्चैव संस्कारोऽर्थ तथा पुनः॥ प्रीत्यर्थ परमेशस्य वैश्वदेवं समाचरेत् । कालद्वयेऽपि तत्कुर्यात् अथवा पुनरेक(कम) सायंकालस्यापकृष्या कुर्यान्मध्याह्न एव वै । पचनाग्नौ प्रकर्तव्यमथवौपासनानले ॥ पचनामिकृते होमे तदन्नं संस्कृतं भवेत् । सर्वेषामपि भोक्तृणां तस्मिन्नौपासने तु तत् कृतस्यादि साभिस्सा तद्दम्पत्योस्तु संस्कृतम् ।प्रभवेदेव नान्येषां तस्मात्तत्पचनानले॥ प्रकर्तव्यं विशेषेण चे....... "षितम् । पचनाग्निं प्रतिष्ठाप्य ध्यात्वालंकृत तत्पदम् ॥ कृत्वा वा शाकलं होमं परिषेचनपूर्वकम् । पञ्चसूनापनुत्यर्थं वैश्वदेवं समाचरेत् ।।
सभार्यः सन् शुचिर्वि(प्रः विधिनास) म्य(त्य)वाग्यतः। प्रज्वाल्य वह्नि विधिना परिषेचनतः परम् ।। षडाहुतीः प्रकुर्वीत चेशान्ये शाकरुसूपके।
अल्पोष्णे जुहुयात्पश्चात् उत्तरात्परिषेचनात् ॥ .... ....."कुर्याद्धर्मादिभ्यो यथा क्रमात् । वैहायसबलिंकुर्यादप्रयदानं च शक्तितः॥ देवयज्ञादिकं कुर्यात्क्रमेण सुसमाहितः । विद्यु घृष्टिप्रपूर्वेण . ... ... ...॥ रथचक्राकृतिं वापि नराकृतिमथापि वा । अथवा धनुराकारं यथारुचि समाचरेत् ॥ परिषेचनमेतेषां पृथगेव समाचरेत् । तत्क्रमं चापि वक्ष्यामि स्पष्टं तद्रप्त ... ॥ एकं द्वौ चतुश्चैकमेकमेकं दशैव तु । एकमेकं पुनश्चैकं एक तं परिषेचनम् ॥ पञ्चसूना गृहस्थस्य वर्धन्तेऽहरहस्सदा । कण्डिनी पेषिणी चुल्ली जलकुम्भ उपस्करः॥