SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३१ ब्रह्मचारिधर्मवर्णनम् सद्यः शनैर्वा संताड्य दूरमुञ्चाटयेदमुम् । ताडनस्य प्रसक्तौ तु यतेर्दुष्टस्य संभवे ॥ नैकेन तत्तु कर्तव्यं वहुभिर्मिलितैः परैः । तत्कर्तव्यं दुष्टभावे तस्मिन्नोचेन्न तबरेत् ।। अन्यायताडितो भिक्षुः ब्रह्महत्याफलप्रदः। प्रभवेत्सद्य एवायं नात्र कार्या विचारणा शुद्धवर्ण्यपि संस्कुर्यापितका शास्त्रवर्त्मना। भिक्षान्नमश्नन्विधिना तस्मिन्कर्मणि सूतके अयं सद्यः प्रभवति ब्रह्मचारी पुनस्ततः । तस्मिन्कर्मणि निवृत्ते शुद्ध एव भवेदपि ॥ मस्कर्यपि तथा तावत् सूतके कर्ममात्रके। पिण्डार तथा वर्णी पाकं कुर्याच मस्करी तत्पिण्डायान्य एव स्यात्पाककर्ता गृही वनी। नान्यः पालं प्रकुर्वीत विधवान्याथ वा पुनः ॥ यत्र वर्णी मस्करी वा पाकाथं पावके तृणम् । इन्धनं वा निक्षिपतः तद्राष्ट्र लयमेति वै पाकमात्रं धनं क्षिप्ता ब्रह्मचार्यपि मस्करी । ब्रह्महत्यां भ्रूणहत्यां वीरहत्यामवाप्नुतः॥ अग्निकार्याग्निहोत्रादौ वर्णिनः समिधां शुचौ । निक्षेपणाधिकारः स्यान्नान्नपाचनकर्मणि ॥ यतिश्च ब्रह्मचारी च पक्कान्नवामिनावुभौ । भोज्यमिष्टं तयोर्दत्वा सद्यः क्रतु फलं लभेत् ।। गृही वा गृहिणी नूनं सत्यं वच्मि पुनः पुनः । समुधु क्ताय भुक्त्यर्थं बालाय ब्रह्मचारिणे ॥ स्थलं जलं पत्रपात्रे लवणं शाकसूतके। रसं तत्र घृतक्षीरं भुक्तिसाधकवस्तु तत् ॥ दत्वा तत्क्रतुसंज्ञातः सुकृतं परसंस्थितम् । अनश्वरममोघं तल्लभतेऽत्यल्पयत्नतः॥ ये वेदाध्ययने तस्मै वर्णिने धर्मचारिणे । औदर्यपीडशान्त्यर्थं मारीचं कल्कमात्रकम् स्नेहौषध गुडादीनि लड्डुकं शष्कुलीमपः। यल्लभ्यते तद्धिताय ददन्ति किलतेऽमलाः।। सुपुत्रपौत्रसहिताः नित्यश्रीकाश्चिरायुषः । नष्टापमृत्यवः प्राप्त वाजिमेधफलाश्च ते ॥ भवेयुरेव वो वच्मि तत्फलं तादृशं महत् । विद्याधीनोऽपि भगवान् साक्षालक्ष्मीपतिर्विभुः ।। तन्मनोरथ पूत्यासौ प.... "तं प्रपद्यते । यतिहस्ते जलं दद्याद्भक्षं दद्यात्ततः परम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy