________________
३३०
लौगाक्षिस्मृतिः प्रमचारी भवेच्छूद्रः पृष्ठपातकवर्जनात् । गृहीवनधरोवणी नेक्षणीयः कदाचन ।।
मौजीदण्डाजिनत्यक्तः युवा विंशतिवार्षिकः ।
मत्स्यपातिसमोवर्णी या ष्णीषधरः पुनः॥ गृहीवनालस्कृतश्च तिलपातसमः स्मृतः। स(सं)क्रन्दनपरोभूयः दुष्टाम्बष्ठ इति स्मृतः॥ पुनस्ताम्बूलवदनः साक्षाद्वैणः स एव हि । पुनःखण्डपरश्चेत्तु सुनोऽयं नात्र संशयः॥
स्त्रीविम्बोकादिना सोऽयं भिल्लव्याधाख्यको भवेत् । तत्रापि खरवाक् करो वेदब्राह्मणभीषणः॥ नेक्षणीयो न संभाष्यः नोपकार्योऽपि बर्बरः।
नित्यं न दयनीयश्च न संग्राह्यश्च सर्वधा(था)॥ देशादुचाटनीयस्यात् दयापात्रमयं न तु । अन्तर्वेदी सङ्गकरो भूमि दुन्दुभिकेक्षणे॥ यदि वर्णी प्राजापत्यसहस्रण पुनस्तथा । पुनस्संकारतश्चापकौटौ घेनुद्वयेन च ॥ मासेन यावकाहाराच्छुद्धोऽयं कथितो बुधैः । सा यदा तेन संगेन गर्भिणा प्रभवेत्तदा तं जातं पुल्कसेष्वेव योजयेत्पञ्चवार्षिकम् । ततः सापि पुरोक्तन चित्तेनैव शनैः पुनः भागीरथीस्नानशतैः घृतशौचाष्टकैरपि । पञ्चगव्यप्राशनेन लक्षवतिव्रतेन च॥ शुद्धाभवति धर्मबॅरित्येवं चित्तनिर्णयः। एतेन पतितानां च कुण्डगोलकयोरपि ॥
अभिनिम्र (मुक्ताभ्युदिते परिविन्नादि वापिनाम् । महापातकिनां सर्वकोपपातकिनामपि ॥ चित्तात्परं शास्त्रमार्गात् शुद्धानामपि केवलम् ।
स्वमात्रस्यैव ते शुद्धः प्रभवन्त्येव सन्ततम् ॥ परेषां निन्दिताव कर्मार्हा न भवन्त्यपि । मस्करी यद्यबलया दूषितो रति शब्दतः सद्य उचाटनीयः स्यात्स्वदेशात्तत्क्षणेन वै । द्रव्यार्जनपदं ज्ञात्वा यतिं दूरात्परित्यजेत्
यण'...'यदि ते नायं पश्चादित्येव तं त्यजेत् । असकृद्याचितश्चेत्तु गृहीतेन शनैः परम् ॥ अदर्शनं ब्रजेद्धीमान्छत्कारेणाथ वा त्यजेत् । तडितस्तेन चेन्मौान्निवृत्यैनमुपायतः॥