________________
ब्रह्मचारिधर्मवर्णनम्
३२६ सूतके मृतके चैव न कूर्याद वतार्चनम् । दानं प्रतिग्रहोहोमः स्वाध्यायं च निवर्तयेत् ।। दीक्षान्वितानां सर्वेषां स्वीयदेव समर्चने । अधिकारोऽस्ति सततं पञ्चाद्रेणैव वाससा प्रधानमन्त्रं तत्कुर्यात् क्षणमात्रेण पूजनम् । उक्षापरस्य धर्मोऽयं वैदिकस्य न संभवेत्॥
अर्चने परकीये तु दीक्षायुक्तस्य सूतके । सर्वथा नाधिकारोऽस्ति तान्त्रिकस्यापि सन्ततम् ।। सर्वदा तान्त्रिकस्यास्य तत्प्रतिष्ठितवर्त्मनः । शूद्रादिसंस्पर्शयोगात् पूजाकाले न बाधकम् ।। पूजामध्ये तान्त्रिकोऽयं स्नात्वा शुद्धोऽपि संस्थितः । शूलास्त्रदेवचक्राङ्घ्रिकिरीटस्पर्शनादितः ।। शूद्रादि जातिनिखिलाः स्पृष्ट्वा स्पृष्ट्वा तदा तदा । • पुनर्देवं च संस्पृश्य साक्षाद्विग्रहरूपिणम् ।। चरन् शुद्ध न भावेन दृश्यते किल देवलः ।
तथा न वैदिको विप्रः अपि तिष्ठेत्क्षणं नु किम् ॥ तस्मात्तु वैदिको मार्गः तन्मार्गात्तु विलक्षणः । साक्षात्परंपरास्पृष्टौ शूद्रादीनां तथैव हि महाघमर्षणस्नानान्मृदादि द्रव्यपूर्वकम् । स्वकर्मक्षमतामेति ताहग्वैदिकशास्त्रतः ॥ न सूतकं मस्करिणां शुद्धानां वर्णिनामपि । स्वधर्मविधुराणां च नास्त्येव किल सूतकम् तद्धर्मोऽयं समाख्यातः वहिकायं तु कालयोः ।
ब्रह्मचारिधर्माः दण्डोपवीतमौजीनां अजिनस्य च धारणम् ।
कौपीन धारणं चापि तत् प्रा(स्त)रणधारणम् ॥ सदा गुरुकुलेवासः वेदाध्ययनमन्वहम् । भिक्षाशनं मातृपितृ शुश्रूषाचार्यवन्दनम् ।। गन्धवस्त्राद्यलंकारवर्जनं शिष्टसेवनम् । ताम्बूलवर्जनं चापि स्त्रीबिम्बोकादि शून्यता ॥ गुरुवानुसरणं तद्वाक्याप्रतिकूलता । त एते मुख्यधर्माःस्युरेतावन्मात्रधारणात् ॥