________________
३२८
लौगाक्षिस्मृतिः यद्यतद्धरये दत्वा महतीं श्रियमाप्नुयात् । पूगीफलं यत्नभिन्नं गन्धकर्पूरमिश्रितम् ।। तस्माञ्चतुर्गुणं पुण्यं त्रिगुणं चायवर्जितम् । व्रणहीनं विशुद्ध च शुचिचूर्ण समन्वितम् ।। ताम्बूलमिति विख्यातं यो देवाय निवेदयेत् । सुगन्धतेजः तेजस्वी सर्वावयवसुन्दरः।। कल्पकोटिशतं दिव्यं शिवलोके महीयते । प्रणम्य दण्डवद्भूमौ नमस्कारेण योजयेत् परांगतिमवाप्नोति ऋतु जामित्र चोत्तमम् । प्रदक्षिणं यः कुरुते देवदेवं जगद्गुरुम् ।। अश्वमेधसहस्रस्य फलमाप्नोति तत्क्षणात् । शिवं प्रदक्षिणीकृत्य सव्यासव्यविधानतः मूलमन्त्र जपन्मौनी सद्गुरूणां मतेस्थितः । छायां च धामसूत्रं च जन्तुन्परिहरन् शनैः देवं प्रदक्षिणीकृत्य दृष्ट्वा शंभुं प्रणम्य च । सव्यापसव्यमार्गेण शुद्धगत्याथ वा त्वरम् मृदुगत्या चित्तशुद्धचा तदेकाग्रमनाः परम् । सम्यक् प्रदक्षिणं कृत्वा पञ्चाक्षरपरायणः अष्टाक्षरपरो वापि द्वादशाक्षरगोऽपि वा । अथवा रुद्रगायच्या विष्णुगायत्रियापि वा यथासंभवतःकुर्याद् ध्यायन्नेवं यथोक्तवत् । कृत्वा प्रदक्षिणं भक्त्या देवदेवं जगद्गुरुम् अश्वमेधसहस्रस्य संख्येन लभते फलम् । दण्डप्रणाम आद्यः स्यात्प्रणामः स्याद्वितीयकः उपविश्याञ्जलिकृतःप्रणामः त्रिविधः कृतः। त्रिभिरङ्गस्तु पञ्चाङ्ग अष्टाङ्गश्च तथा त्रिधा पुनः स एव प्रख्यातः तद्विधिज्ञैर्महात्मभिः । पुष्पैरालिमापूर्य राजाधिमनुना पुरः॥
नमोन्ताद्भक्तिसंयुक्तः देवं संचिन्त्य मन्त्रवित् ।
शीर्णिदेवस्य दत्वैव पुष्पाञ्जलिमनुत्तमाम् ॥ पुनः प्रदक्षिणं कृत्वा स्वीयं संन्निधिगोऽस्यवै। दण्डवत्प्रणमेद्भूमौ न वस्त्रेणापि पीठके एरकायां कटे तल्पे प्रणमेन्नैव सर्वथा । सिरसा हस्तयुग्मेन कर्णाभ्यां चुबुकेन च ॥
वाहुभ्यां भुवमष्टाङ्ग संस्पृश्य प्रणमेद्विभुम् ।
उरसा सिरसा दृष्ट्या मनसा श्रद्धया गिरा ।। पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामाष्टाङ्ग ईरितः । यथोचितं नमेवे देशकालाद्यपेक्षया अअल्यैव कदाचित्तु दूराद्गोपुरदर्शने। धावमानोभियाकुर्यादञ्जल्यैव प्रदक्षिणम् ।।
वाङ्मात्रेण कदाचित्तु ध्यानेनापि कदाचन । कीर्तनस्मरणाभ्यां च नमस्कारान्समाचरेत् ।।