________________
३२६
लौगाक्षिस्मृतिः क्षत्रियत्वमवाप्नोति वैश्यो राजा द्विजत्वकम् ।
आप्नुयादेव वन्येतत्ताहक तत्कर्मभावुकम् ।। वेदार्थदशी विप्रः स्यादीपदानप्रभावतः। न वेदार्थपरिज्ञानादन्याश्रीरस्ति विष्टपे । वेदमन्त्रार्थविनाशः मन्त्रीपविनियोगवित् । कल्पब्राह्मणमार्गेण स एवेश्वर उच्यते॥ संपदन्या ततो नास्ति मनुष्याणां महात्मनाम् । देवानामपिसेन्द्राणां वेदार्थज्ञानतः परा धनरूपां श्रियं येन केन मार्गेण चित् सदा । शक्यते किल संप्राप्तुं तन्मत्रार्थैकवेदनम्। अनेकजन्मशतकसहस्रतपसा श्रिया। सद्गुरूणां प्रसादेन दक्षिणामूर्त्यनुग्रहात् ।। हयग्रीवमहिम्नैव दत्तात्रेयप्रसादतः। वेदमात्रार्थतत्त्वज्ञो जायते नान्यथा नरः॥ शतदीपास्तु देवाय दत्वा तु नियतव्रतः। यमालयमदृष्ट्वैव विमानैः सूर्यसंनिभैः॥ हंसयुक्तर्गतिं लब्ध्वा स्वेच्छाचारी भवेद्धृ वम् । दीपान् शतद्वयं यस्तु योजयेद्दवसंनिधौ वर्षकोटिशतं पुण्यं तस्य लोके महीयते । यः पञ्चशतदीपानां कारको देवसंन्निधौ ॥ कल्पकोटिसहस्राणि कल्पकोटिशतैरपि। भक्तेर्देवपुरे भोगाननुभूय महात्मभिः ।। शतजन्मसु सम्राड्त्वं प्राप्नोत्येव प्रवच्मिकः । देवैरेवं वर्णितानि चतुर्मुखमुखैः पुरा॥ रात्रौतत् द्विगुणंपुण्यं कार्तिकं द्विगुणं स्मृतम् । चतुर्गुणं दक्षिणे तु पञ्च चैवोत्तरायणे । दीपोत्सवः चतुर्दश्याममायां प्रतिपदिने । न गण्यते विधात्रापि फलं तत्तादृशं महत् यो दद्यात् घृतदीपांस्तान्देवानां चैव पर्वसु । कार्तिक्या प्रस्थकेनैव प्रकीर्णाघौघनाशनः आढकादुपपातकानि द्रोणेनैव तु पातकम् । पञ्चद्रोणघृतेनैव महापापात्प्रमुच्यते ॥ देवदेवं समुद्दिश्य दीपमाकाशवर्तिनम् । संप्राप्ते कार्तिकेकुर्यान्महच्छ्रियमवाप्नुयात् ॥ त्रिपञ्च कार्तिको दीपौ दश द्वादशदीपकौ । देवस्यानन्दजनको दानतोऽजस्रमेवहि॥ सर्पदोपो वृषाख्यो वा मृगपूरुषनामकः । वल्मीकदीपकल्याणनामको चतुराकृतिः॥ रथदीपश्च सुमहान्कुम्भदीपो महोन्नतः । पञ्चमूर्ति महादीपा कर्पूरश्वरमः परः॥ दानमात्रेण मानां तत्काले दर्शनादपि । साक्षात्सायुज्यदा एव पुनर्जन्मान्तरापहाः एतत्फलसहस्रांशकोटिमात्रस्य वा विधिः । वक्तुं युगसहस्रण न शक्नोति पितामहः ॥ नीराजनस्य दत्तस्य कर्पूरेण कृतस्य वै। य उष्णेन स्वगात्राणि लेपयेत्तस्य देहतः ।।