________________
३२४
लौगाक्षिस्मृतिः शीतज्वरस्य तु श्रीमान् नार्यश्चिन्त्यः समन्त्रकैः । अभिषेकादि नैवेद्यः वन्द्यो ध्येयः सदा हरिः॥ उष्णज्वरस्य शान्त्यर्थं सह गौर्या महेश्वरः।
अभिषिच्याम्बुभिः शीतैः चन्दनोत्पलगन्धिभिः॥ पुष्पचन्दनतोयेन यदा तु कुशवारिणा । स्नापयित्वा देवदेवं निरोगी जायते नरः॥ कल्पकोटिसहस्रस्तु कल्पकोटिशतैरपि । ईप्सितं किल्बिषं दग्ध्वा गाणपत्यमवाप्नुयार वासांसि सुविचित्राणि सुधूतानि मृदून्यति । नवानि देवदेवाय दत्वा संराद्भवेद्धृ वम्
यावत्तद्वस्त्रतन्तूनां परिमाणं प्रतिष्ठति ।
तावद्वर्ष सहस्राणि स्वाराज्याधिपतिर्भवेत् (ध्रुवम् )॥ त्रिवृतं शुक्लपीतं वा पट्टसूत्रादि निर्मितम् । दत्वोपवीतं देवाय भवेद्वेदान्तपारगः ॥ दिव्यलेपनकर्ता तु दिव्यगन्धसुचन्दनैः। वर्षकोटिशतं दिव्यं शिवलोके महीयते ।। गन्धानुलेपनात्पुण्यं द्विगुणं चन्दनस्य तु । चन्दनागरुभिः पुण्यं ज्ञेयमष्टगुणाधिकम् ।। कृष्णागरोविशेषेण फलं शतगुणं भवेत् । तस्माच्चतुर्गुणं पुण्यं कुड्मस्य विधीयते ॥ चन्दनागरुकर्पूरैः चन्द्रपुष्पैः सुगन्धिभिः। कुङ्कुमैर्देवमालिप्य कोटिकल्पान्वसेदिवि ॥ खरामसंभवंश्रेष्ठं मध्यमारण्यसंभवम् । विक्रीतं त्वधर्म ज्ञेयं पत्रं पुष्पं फलं तथा । अतिशुक्लमतिश्रेष्ठं रक्तपुष्पं तु मध्यमम् । पीतंचैवाधमं ज्ञेयं कृष्णपुष्पं ततोऽधमम् ॥
चित्रपुष्पं ततो हीनं याचितं तु ततोऽधमम् । केशकीटापविद्धानि पत्रपुष्पाणि सन्त्यजेत् ॥ कीटभिन्नानि सर्वाणि दूरतः परिवर्जयेत् । पतितानि पृथिव्यां च तथा स्थानच्युतानि च । अर्चनार्थं निषिद्धानि कथितानि महात्मभिः । पाटाया अधिका ज्ञेया वर्तिका तुलसंभवा । कार्पासजाततो मुख्या बिसतन्तु प्रकल्पिता। वर्तिका परमोत्कृष्टा न तयान्या समाऽपरा ।।