________________
३१८
लौगाक्षिस्मृतिः आवाहव तु गङ्गादीन् तकारेण सबिन्दुना। अमृतीकरणं कुर्यादमृती भुव इत्यथ ।। निर्विषीकरणं कुर्यात् का च गारुड मुद्रया। हृदा संपूजयेच्छङ्ख कवचेनावकुण्ठयेत् ॥ अस्त्रेण रक्षयेच्छा कवचेनावकुण्ठनम् । अत्रमन्त्रेण चालोक्य घेनुमुद्रां तु मूलतः ।
दर्शयित्वा ततो मन्त्रं स्पृष्ट्वा चैवाष्टधा जपेत् । आत्मानं द्रव्यजातं च प्रोक्षेद्यजनसाधनम् ॥ पाद्यार्थ्याचमनीयादि पात्राण्येवं हि साधयेत् ।
अभावे चैव पात्राणां शङ्खचैवापि तन्त्रतः॥ आत्माऽर्चनं प्रकुर्वीत गन्धाधरष्टपुष्पकैः । तन्मालावलयं कृत्वा देवं वेदस्वरूपिणम् ॥ यजेदेव विधानेन वैदिको नित्यमेव वै । ह्रखदीर्घाञ्चितान्बिन्दून् ब्रह्मरन्ध्रशिरोन्तरात्
मन्त्रान्समुच्चरेन्मन्त्री देवममन्त्रेण वारिणा ।
प्रोक्ष्याङ्गुष्ठकनिष्ठाभ्यां पूजापर्युषितं त्यजेत् ।। वामहस्तेन संमृज्य पीठकं दक्षहस्ततः । मूलेन पाणिना देवं गङ्गाद्यवनयावधि ॥ मध्यमानामिकाङ्गुष्ठरुत्तानैलिङ्गमस्तके । पुष्पं निधाय दत्वाऽयं लिङ्गमुद्रां दृशेद्धृदि। अपृष्ठेन स्पृशेल्लिङ्ग पश्चात्पादं तु मुष्टिना । अस्त्रेण हस्तं प्रक्षाल्य यजेहवें गणाधिपम् पूर्व संकल्पिते पीठे गुरुं चैव प्रपूजयेत् । आधारशक्तिं संपूज्य मूलप्रकृतिमेव च ॥ कूमं शेषं वराहं च पृथिवीं च यजेत्रमात् । ततो रत्नमयीं वेदी मण्टपं स्थलमेव च ॥ पीठपादेषु चतृ'तुर)षु वह्निकोणे गणेश्वरम्। उमां सतीच तत्पश्चात् क्षेत्रपालां ()च वह्नितः धर्म ज्ञानं च वैराग्यमैश्वर्यं च यथाक्रमात् । यजेताधर्ममज्ञानमवैराग्यमनैश्वरम् ॥ इन्द्रादिषु चतुर्दिक्षु अब्जं चैव दलाष्टकम् । मूलकन्दं च नादं च दले चैव तु केसरम् ।। रजस्तमो गुणं सत्वं मूलादिक्रमतो यजेत् । अष्टैश्वर्यसरूपाणि दलान्यष्टौ प्रपूजयेत् ।।
__ अष्टौ संपूजयेच्छक्तीः वामां ज्येष्ठां च काद्रिकाम् ।
कालां च कलवी करणी ततो बलविकारिणीम् ॥ बलप्रमथनीं सर्वभूतदमनी क्रमात् । तथाष्टशक्तयः पूज्याः व्यम्बके तु विशेषतः॥ जया तु विजया चैव अजिता चापराजिता। भद्रकाली कपाली च क्षेममृत्युः पराजिता