________________
असा
.
सविधिपूजाविधानवर्णनम्
३१६ नवमीं कर्णिकामध्ये तथा चैव मनोन्मनीम् । दलाने केसराग्रे च कर्णिकामे तु मध्यतः ।। सूर्यसोमाग्निबिम्बानि पूजयेच्छक्तिमण्डलम् । ब्रह्मविष्ण्वीशरुद्रांश्च सूर्याद्रि(दि)कमतो यजेत् ॥ मध्ये सिंहासनन्यासजातं न्यस्य च छन्दसाम् ।
न्यासं कृत्वा क्रमेणैव कुर्याल्लिङ्ग स्वदेहवत् ॥ मूलेन चासनं पाद्यमय॑माचमनीयकम् । मधुपर्क चाचमनं स्नानं गव्यस्तु पञ्चभिः॥ स्नानं चाचमनं दत्वा पाद्यमर्थ्य तथाचमम् । वस्त्रं चैवाचमनं दद्याद्यज्ञोपवीतकम् ॥
पुनराचमनं गन्धं दत्वा चैव यथोचितम् ।
मध्यमानामिकाङ्गुष्ठैः पुष्पाणि विनिवेदयेत् ॥ नमो मुद्रां प्रदाथ शम्भोरावरणं यजेत् । पञ्चब्रह्मषडङ्गानि प्रथमावरणे यजेत् ॥
ईशेन्द्र यमदिक्सौम्य वारुणेशेष्वतः क्रमात् । वह्नीश निश्()ति मरुत् चक्रदिक्षु यथाक्रमम् ॥ अस्त्रं चैव तु वह्वथादिचतुष्कोणेषु पूजयेत्।
निवृत्तिं वै प्रतिष्ठां च विद्यां शान्ति तथैव च ॥ आग्नेयादिषु कोणेषु द्वितीयावरणं ततः । अनन्ताशेषकरुणा शिवोत्तमकनेत्रको॥
एकरुद्र त्रिमूर्ति च श्रीकण्ठाख्यं शिवेड्यकम् ।
पूर्वादिशान्तपत्रेषु विद्य शावरणं यजेत् ।। चतुर्थे लोकपालांश्च इन्द्रादीननुपूर्वशः । लोकपालास्त्रजालं च पूजयित्वाऽथ पञ्चमे ॥ तस्मिन्नावरणे विद्वान् तत्क्रमोऽयमु(दीर्यते)। वज्र शक्ति कालदण्डं खड्गपाशमथाङ्कुशम् गदां त्रिशूलं संपूज्य धूपदीपादिना ततः । क्रमाद्दत्वा तु देवेभ्यो पुष्पैरभ्यर्च्य तत्परम्॥ धूपदीपो पुनर्दत्वा घण्टानादपुरस्सरम् । अस्त्रेण प्रोक्ष्य पयसा चित्तशुद्धिसमन्वितः॥ चक्रण प्रोक्षयेत्सर्वा धेनुमुद्रां प्रदर्शयेत् । ततो नैवेद्यपात्रस्य सर्वं चैव तु शङ्खवत् ॥ पञ्चप्रहाणदेवस्य दद्यान्नैवेद्यमुत्तमम् । पुनर्नैवद्यमन्येभ्यो दद्याद्याचमनीयकम् ॥