SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१६ लौगालिस्पतिः Auton-SANILE बतायाधममय कालत्रयसभा रामारु YUN सन्ततमा आरात्रि सार्धयाम वै यदा वा स्यात्तदा स तु । नियमः प्रभवेन्नूनं ने संकल्पो विनश्यति ॥ यद्वा मध्याह्नवेलायां शिवं यष्ट्वा तु सन्ध्ययोः । पञ्चोपचारान्कुर्वीत तावत्पूजाफलं लभेत् ॥ जलसंग्रहणं कुर्यात् पात्रपुष्पादिसंग्रहम् । कर्तव्यमुदकादूवं शुद्धः सन् जलसंग्रहम् ॥ कुर्यादेवातिभक्त्यैव नाशुद्धस्तु कदाचन ।। स्नानं कृत्वातु मध्याह्न पुष्पायु त्पादयन्तिये ॥ देवतास्तं न गृह्णन्ति पितरो गुरवस्तथा । तस्मादिनोदयादूवं मध्याह्वात्प्राक् समुद्धरेत् ॥ खारामसंभवं श्रेष्ठं तत्तु स्यादुत्तमोत्तमम् । मध्यमं वनसञ्जातं क्रयलब्धं निरर्थकम् ॥ परकीयारामजं तु तत्फलार्थ तमुच्यते । शूद्रोपवनजो यस्तु निरर्थकमिदं स्मृतम् ।। (वाय)वीयं बाडबानां द्वयोरर्धफलं लभेत् । शतपुष्पसमं बिल्वं तथैव तुलसीदलम् ॥ तुलसीपुष्पतुलितं बिल्वपुष्पसमं तु वा। न वस्तुलोके परमं वर्तते यत्र कुत्रचित् ॥ प्राणायामं च संकल्पं विना देवं न पूजयेत् । संकल्पात्परतो विद्वान् कलशार्चनमारभेत् ॥ गन्धपुष्पाक्षतैः सम्यक् तीर्थावाहनकैः परैः। । आपोवेत्यादिभिर्मन्त्रैः तन्मुद्रादर्शनादिभिः॥ तन्मन्त्रपठनात्पश्चात् तज्जलेनोद्धृतेन वै । पूजाद्रव्याणि चात्मानं प्रोक्षयेत्तत्परं पुनः॥ यागगेहस्य पूर्वादिदिक्षु द्वाराणि पूजयेत् । द्वारमन्त्राम्बुनाप्रोक्ष्य द्वारपालान् यजेक्रमात् ।। गणपो मारती लक्ष्मीःसर्वद्वारोर्ध्वगाः स्मृताः । द्वारस्य दक्षिणे बामे मध्यमे परिवर्तिनः ।। प्राक् द्वारे दक्षिणे नन्दि गङ्गा च द्वारमास्थितः । गणेशो दक्षिणे द्वारे पश्चिमे तु सरस्वती॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy