________________
३१४
लौगाक्षिस्मृतिः सर्वा अप्यत्र कर्तु वा शक्यन्ते ब्रह्मबुद्धितः । सर्वोपास्यं सर्ववन्य सर्वनामास्पदं परम् सत्यज्ञानानन्दरूपं जगजन्मादि कारणम् । तद्ब्रह्म कथितं यस्मात्तदेवातो महेश्वरः।
ब्रह्मविष्णुसूर्यशक्तिनाममात्रेण भिन्नतः । निगद्यतेऽतस्तद्ब्रह्म शिव एव वचा (हरेः) परः॥ हरिरेव शिवः साक्षात् तयोर्भेदो न सर्वथा। भेदकृत्पापमाप्नोति पुनर्वभ्यपि सूक्ष्मतः॥ शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः।
यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः ।। आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति यथारुचि ततो नित्यमभीष्टसुरपूजनम् । जलाभिषेकपुष्पाद्यः दीपाद्यश्च निवेदनैः।। कुर्यादेव विधानेन कृतकृत्यो भवेत्ततः। प्रणवो व्याहृतिर्माया बीजिनी करणी च सः व्याहृत्या संपुटयुतो निखिलाकाररूपकः । सर्वमन्त्रस्वरूपश्च सर्वकारणवाचकः ॥
तथा सूर्यस्य वायोश्च इन्द्रस्याग्नेस्त्रयस्य च । उमाया अप्य कायाः स्वरूपोऽयं क्रियादिकः॥ सुपुष्टिस्तस्य वृक्षस्य यथा गन्धः सुशोभनः।
याति दूरात्तथा तस्य गन्धस्पर्शो महात्मनः॥ . तस्मात्तु गन्धाद्भगवान्गान्धारयति शंकरः । गान्धारश्च महादेवो देवानामपि लीलया सुगन्धस्तस्यलोकेऽस्मिन्वायुर्वाति नभस्थले । तस्मात्सुगन्धिकं देवं सुगन्धं पुष्टिवर्धनम्।
अस्यावेशः पुरा शम्भोः हृदि योनौ प्रतिष्ठितः ।
तस्य देवं सुबद्धाण्डहिरण्मयमजोद्भवम् ।। चन्द्रादित्यौ स नक्षत्रा भूर्भुवस्वर्जनस्तपः। सत्यलोकमतिक्रम्य पृथिवीजस्य तस्य वै॥ पचभूतान्यहंकारो बुद्धिः प्रकृतिरेव च । पृथिवीबीजस्य तस्यैव तस्माद्व पुष्टिवर्धनः॥ सं पुष्टिवर्धनं देवं घृतेन पयसा तथा । पयस्संयुक्तदूर्वानः कुशकेन घृतेन वा ॥ सघृतेन तिलेनैव गल(ड)च्या पायसेन वा । मधुसंयुक्तगोधूमयवबिल्वफलैरपि ।