SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आदित्यादिपञ्चदेवपूजन विधानवर्णनम् ३१६ दैनंदिनावाहनं तु पञ्चानामत्र वैदिके । न कार्यमेव किं त्वेतत् कार्ये वच्म्यस्य निश्चयम् ।। दिना.... काति करणे तत्पूजायां परं तु तत् । आवाहनं तत्प्रभवेत् पञ्चगव्याभिषेचनम् ॥ पञ्चामृताभिषेकश्च देवताऽऽह्वानसिद्धये । सा(शा)लग्रामे सर्वथैव न तथाऽऽवाहनं भवेत् प्रतिमानां वैदिकानां पक्षे पक्षे भवेत्तु तत् । महाभिषेकात्परतः अपिधानक्रिया च सा॥ तदीय वाससैव स्यात्तद्बमस्या बनुत्तये । धूपो दीपश्च नैवेद्य त्रयमेव च तत्क्षणे ।। कर्तव्यत्वेन कथितं तद्विधिहर्महात्मभिः। (अपि चण्डालसंस्पृष्ट सा(शा)लपावातुसन्ततम् पूतः प्रक्षालनाच्छुद्धो भवत्येव ततः पुनः । तत्तीर्थं चापि नैवेद्य न स्वीकार्य दिनत्रयम् फलादिकं चेत्संग्राह्यमोदनं निन्दितं भवेत् । पूर्षसूक्ताभिषेश्च तत्परं तस्य वैदिकम् ।। प्रकार्य इति तज्ज्ञास्ते प्रवदन्ति मनीषिणः । उच्छिष्ट दूषितो यस्तु सा(शा)लयावा दिनद्वयात् ॥ पूर्षसूक्ताभिषेकश्च तत्परं तस्य वैदिकम् । प्रकार्य इति तज्ज्ञास्ते प्रवदन्ति मनीषिणः ।। उच्छिष्टदूषितो यस्तु सा(शा)लग्रावा दिनद्वयात् । पूर्षसूक्ताभिषेकस्य योग्यः स्यादिति योगिनः ।। चण्डालहस्तगः साक्षात् सा(शा)लपावा तु पक्षतः । जलावासेन शुद्धिः स्यात्ततश्चावाहनादिकम् ॥ प्रतिमानिखिलाश्चापि शिवविष्ण्वादिकाः सदा । प्रतिष्ठया तच्छात्रोक्तविधयैव न चान्यथा ।। पूज्या योग्याश्च पूताश्च स्युः संग्राह्याश्च सन्ततम् । भवेयुरेव सर्वेषां यतीनां योगिनां विना ॥) आदित्यादिकपञ्चानां नित्यवैदिक पूजने । रुद्रपूर्षादयो मन्त्राः तत्तन्नामार्चनादिकाः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy