________________
३१२
लोगाक्षिस्मृतिः पश्चाजन्मान्तरे तस्य फलं घोरं सुदारुणम् ।
अधाप किल मेधावी महाभक्तशिरोमणिः ॥ अप्ययं तदलंध्यं वै तादृशं प्रपदामि च । नष्टायुनष्टनामश्च पुत्रशोकेन पीडितः॥ सूनोरसंनिधौ कायं विससर्ज हि पार्थिवः । तत्पूजया स भगवान् क्रीतस्तत्पुत्रतां गतः अपि तच्च फलं तस्मै तादृशं च ददौ पुनः। तस्माद्विद्वानत्र नित्यं तत्पूजाखपि यमतः॥ नैवेद्यमचिराकुर्याहीपादथ विचक्षणः । तथैव पुनरप्येकं भक्तानां तत्समर्पणम् ।। तत्पूजान्ते प्रकर्तव्यमन्यथा तेति कोपतः । शपन्त्येनं बलिमुखाः भक्तास्ते सनकादयः॥ तस्मात्तेषां प्रकर्तव्यं तन्नैवेद्यसमर्पणम् । एतेन शिवपूजापि प्रोक्तप्रायात्र केवला ।। तत्राद्या या वैदिकी सा सर्वैः मन्त्रैर्निगद्यते । सर्वेषामतिसौलभ्यमार्गेणैवाऽतिसूक्ष्मतः , महेश्वरस्तत्र मध्ये प्रपूज्यः स्यात् त्र्यम्बकः ।।
आदित्यः पूर्वभागे तु अम्बिकादक्षिणे शिवा ।। विष्णुर्देवः पश्चिमे स्याद्गणनाथस्ततो(थो)त्तरे। क्रमेण स्थापनीयाः स्युः पूजनेऽत्र शिवस्य तु ...."दं लिङ्ग बाणानामैकविश्रुतम् । सौवर्ण राजतं वापि तथा मारकतन्तु वा ॥
रानं वा रसलिङ्ग वा सद्योजाताख्यकं तु वा ।
अघोरनामकं वापि न चेत्तत्पुरुषाख्यकम् ।। वामदेवाख्यकं श्रीमान्न चेदीशानसंज्ञिकम् । एतेषु लभ्यते यद्वा तदेकं वा त्रयं यजेत् ॥
सर्वाणि यानि वा यस्य तावन्त्यो वाऽत्र पूजयेत् ।
पूर्वोक्तः परिवारैस्तु समष्ट्य वाऽत्र पूजनम् ।। वैदिकस्यैव विहितं तान्त्रिकस्य न तद्भवेत् । तद्गौरी शिवनाथाख्यं गौरीपूजनकर्मणि स्वीकार्यमिति पूजाविधिज्ञाः प्राहुरित्यथ । स्फाटिके सूर्यमूर्तिः स्यात्प्रकल्प्यामन्त्रवित्तमैः
सा(शा)लप्राणि हरिः प्रोक्तः श्रौणः कल्प्यो विनायकः । सा(शा)लयामेषु शिषयोः मूर्तयो विविधाः पराः॥ प्रशस्ताः स्युस्तास्तु सतां वैदिकानां महात्मनाम् । पूजाकर्मसुसंपाषा उत्तमत्वेन सन्ततम् ।।