________________
दीपदानात्परं नैवेद्यनिवेदनवर्णनम्
३११ गर्हिता तत्प्रसादादि गर्हणं न तु वैदिकम् । असंभोज्यानहस्तेन यदन्नं वै निवेदितम् ।।
तदग्राह्य भवत्येव तादृशं तं न संस्पृशेत् ।
असंपूज्या अपाङ्क्त या अपात्राः पात्रदूषकाः ।। तान्त्रिका वेदबाह्याश्च द्वोषिणः कुण्डगोलको । तथा देवलकाः सर्वे ब्रह्मप्रवषिणोऽपि ये अभिनिर्मुक्तकुनखि श्यावदन्तककुष्ठिनः। परिविन्ना अभ्युदिताः परिवित्तय एव च ।। अपकीर्ति हता बन्धुत्यक्ता ब्राह्मणनिन्दिताः । पुनरन्ये कुत्सिता ये तत्कृतं यन्निवेदितम् तदस्पृश्यस्पर्शनेन स्नानप्रक्षालनादिना । शौचं संपादनीयं स्यात्तादृशस्य तु भक्षणात्॥ अप्रायत्यमवाप्नोति तेन चित्ती भवेदपि । असंभोज्यान्न हस्तेन यदन्नं विनिवेदितम्॥
तन्निविशङ्क येऽदन्ति ते जातिभ्रंशिनः स्मृताः।
___ सततं वैदिकानां तु प्रशस्तं स्यान्निवेदितम् ॥ संभोज्यान्नैककरतः संस्कृतं पावनं शिवम् । निवेदितेन रुच्यर्थं भोजयेन्न निवेदितम्॥ न पीडयेत्पिण्डयेच्च न त्यजेन्न निषेधयेत् । न प्रोक्षेत्परिषिञ्चेञ्च कुर्यान्नोच्छिष्टमप्यति । माहात्मद्वयहस्ताभ्यां रचितेऽपि निवेदिते । न भोजयेत्पुनः किं तु पृथक्त्वेनैव निक्षिपेत् सुपकमन्नं विधिना शुद्ध पात्रान्तरे शिवे । सुखोष्णयित्वाभिघार्य सूपव्यञ्जनसंयुतम्॥
भक्ष्यभोज्यफलोपेतं रसैः षड्भिः समन्वितम् ।
धूपदीपात्परं यत्नाद्गायत्र्या प्रोक्ष्य पाथसा ।। सत्येन परिषिच्येदं मन्त्रैः प्राणादिपञ्चकैः । निवेदयेत्पञ्चशाख चाञ्चल्याभिनयेन वै॥ घण्टानादप्रपूर्वेण देवाय परमात्मने । भक्तिगम्यो भक्तवश्यो दयालुदीनवत्सलः ।। भक्तापराधानखिलान् क्षमते तत्कृतान्परान् । एकं तमेवापराधं सहते न तु केवलम् ॥ दीपदानात्परं यत्तद्वयवधानकृतं हरिः। नैवेद्यमत्यसां हि तद्विना क्षमते स्वभूः ।।
यदत्यं निखिलं तस्मान्न कुर्यात्तु तथा नरः।
कदापि बुद्धिमानत्र देवनिक्षिप्तचित्तकः॥ नैवेद्यमचिरात्कुर्यात् दीपादथ विचक्षणः । चिरायमाणे नैवेद्य सोऽनर्थस्सुमहान्यतः दिनमेकं दशरथः चिरात्कृत्वा निवेदनम् । पुरा जन्मान्तरे कार्यान्तरयोगेनतादृशः॥