________________
लौगाक्षिस्मृतिः संकल्पमात्रं कृत्वा वा पुरुषसूक्त न केवलम् । द्वादशाष्टाक्षरात्मभ्यां मन्त्राभ्यां वा नचेत्पुनः ।। आपोहिष्ठादिभिर्वाऽपि तूष्णीकं वा यथा तथा । शालग्रामे शङ्खतोयमात्रेण स्नपनं वरम् ।। उद्धरिण्याऽथ वा कृत्वा गन्धाक्षतसुमादिभिः ।
पूजयित्वा शक्तिमात्रात् केशवादिमुखैः पदैः॥ तुलस्या वाऽभ्यर्चयित्वा कुसुमैर्वा न चेत्पुनः । तूष्णीकमात्रमात्राद्वा धूपदीपौ तथैव हि (उ)शक्तिमात्रादर्पयित्वा पक्कान्नं यत्तु केवलम् । सव्यञ्जनं सूपयुक्त ताभ्यां विरहितं च वा निवेदयित्वा देवाय तत्पश्चात्तन्निवेदनम् । तद्भक्त भ्यस्तार्थ्यशेषसनकादिभ्य एव च।
समर्प्य कृतकृत्यःस्यात् भक्तिहीनोऽपि केवलम् ।
( यः पूजयित्वा देवेशं न कुर्याद्भक्तपूजनम् ॥ निरर्थकं भवेत्तत्तु तस्मात्तद्भक्तपूजनम् । प्रयत्नेन प्रकुर्वीत तं निर्माल्यसमर्पणम् ।। भक्तपूजनमित्युक्तं तद्यत्नान्नित्यमाचरेत् । ) शालिग्राव्णामयुग्मस्य पूजनं कार्यमन्वहम गृहिर्वणिवनस्थानां नित्यं संपत्करं परम् । तद्यु ग्मपूजनं तेषां न प्रशस्तं महात्मभिः॥ निन्दितं दुःखफलदं तथा तस्मात्तु तच्चरेत् । शिलाभेदेन सा पूजा गर्हिता वेदमार्गिणाम् सर्वमूर्तिष्वेक एव भगवान्विष्णुरव्ययः। सान्निध्यं कुरुते नित्यं तस्माद्माव्यां समर्चनम् एकमेव प्रकर्तव्यं न पृथक् तत्कदाचन । समष्टिपूजनादत्र श्रीमान्नारायणो विभुः ॥ सान्निध्यं कुरुते सर्वैः देवभक्त समन्वितः । अनेकग्रावयोगे तु देवदेवस्य तस्य वै॥ सान्निध्यं तद्विशेषेण भवेदिति महर्षयः। यत्र द्वादशसंख्याकाः सा(शा)लग्रावाणनामकाः
वर्तन्ते स हि देशो यः साक्षाद्वैकुण्ठसंज्ञकः । आविर्भावो भगवतः प्रतिमास्वपि केवलः॥ सा(शा)लग्रावमुखेनैव न स्वातन्त्र्यण वच्मि वः। प्रतिमानां प्रतिष्ठा सा सा(शा)लपाव्णा समीपतः। तस्मात्कार्या विधिज्ञेन वेदमन्त्रैः सुभक्तितः। प्रतिमाऽत्र पूजा सा वैदिकानां विशेषतः॥