________________
विष्णुपूजनकर्मणिनानाविधानवर्णनम्
३०६ चक्र शङ्ख गदा पलं कौस्तुभ कुशलं तथा ।
खड्ग च वनमालां च प्रागादिषु यजेलमात् ।। प्रागादिषु चतुर्दिक्षु ध्वजं गरुडमेव च। ततः शङ्ख निधि पद्म निधिं चैव यजेक्रमात् वह्नयादिषु च कोणेषु पूजयेत्तु विनायकम् । हर्यक्षं च ततो दुर्गा विष्वक्सेनमिति क्रमात् प्रागादीशानपर्यन्तं लोकपालान्यजेत्क्रमात् । पश्चात्तु देवदेवाय दद्यादुदकपूर्वकम् ॥ धूपं नीचैः प्रदातव्यं दीपमुच्चैः प्रदापयेत् । प्रदापनेनात्र मन्त्रोच्चारणमिति स्मृतम् ।।
___ दत्वाऽथ परिवारेभ्यो नैवेद्य स्नानशोधनम् ।
कृत्वा तु शङ्खवत्सवं दत्वा संप्रोक्ष्य तत्परम् ॥ चक्रण हरयेत्तं तु वायुबीजेन शोधयेत् । दग्ध्वा च वह्रिबीजेन ह्यमृतीकरणं ततः॥ निर्विषीकरणं कुर्यात्ततोगरुडमुद्रया । धेनुमुद्रां दर्शयित्वा मूलमन्त्रेण योजयेत् ॥ पुष्पैरभ्यर्च्य नैवेद्य पुष्पं देवाय पञ्चकम् । समर्पयेत्तु विधिना मूलेनोदकपूर्वकम् ।। अमृतापिधानात्पश्चाद्गण्डूषं मुखवासनाम् । ताम्बूलं च ततो दद्यात्ततो नीराजनं हरेः ततो नैवेद्यमुद्धृत्य विष्वक्सेनाय दापयेत् । अर्ध्याष्टकं ततो दत्वा दर्पणं व्यञ्जनं तथा छत्रं चोपानही दत्वा नृत्तगीतैःस्तवैरपि । प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्चयेत्॥
परां गतिमवाप्नोति नित्यं ऋतुफलं लभेत् ।
विष्णोविमानं यः कुर्यात्सकृद्भतथा प्रदक्षिणम् ।। अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः । तेजो रूपं ततो देवं संहरिण्या प्रपूर्य च । प्रविश्य देवे सास्तु तं देवं हृदि मुद्रया । स्थापयित्वाऽर्चनं सर्व कुर्यान्नारायणार्पणम् ।। अनिष्टोमसहस्रस्तु वाजपेयशतैरपि । यत्फलं कथितं सद्भिस्तत्फलं लभते वशात् ॥ हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः॥
भवेदेव न सन्देहः सन्देही पातकी भवेत् । एवं ह्यभ्यचितो विष्णुः प्रीतो भवति तत्क्षणात् ॥ किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्मखैः । एवमर्चयितुं विष्णुं यद्यशक्तोऽन्वहं नरः ॥