________________
३०८
स्थाको मूर्वि किमान पालकिलाचार । स्थायामीति संस्थाल्य देववाधिकान्या ।। लं संविधापयामीति मन्त्रेणैकावकुण्ठयेत् ।
निरोधयामीति च ततस्त्ववकुण्ठयामीति च ।। एवं हि मुद्या ऋष्यादिकं सकलकर्म तत् । विन्यसेह वदेवायाऽऽसीनं मूलमन्त्रतः॥
पाद्यमध्यं चाचमनं मधुपर्क तथा क्रमात् ।
कल्पितेभ्योऽथ पानेभ्यो दत्वाऽथ स्थापयेद्धरिम् ॥ कल्पितेभ्योऽथ पात्रेभ्य अर्घ्यमाचमनं ततः। तत्पाद्यमुपवीतं च दत्वा गन्धादिकं पुनः अक्षतानपि पुष्पाणि धूपदीपादिकं क्रमात् । नैवेद्यमपि ताम्बूलैः कर्पूरादिसुगन्धकैः। गन्धेभ्यश्चन्दनं पुष्पं चन्दनादगरुर्वरः। कृष्णागरुस्ततः श्रेष्ठः अस्पृष्टैश्चापि जन्तुभिः॥ अरण्यसंभवैर्यद्वा स्वात्मारामसमुद्भवैः । यद्वा त्रितैः पञ्चपुष्पैस्तुलसीजातिसंभवैः ।। अन्यैः पुष्पैत्रिलोकेशं पूजयेत्रिदशेश्वरम् । येऽर्कपुष्पैत्रिलोकेशं पूजयन्ति जनार्दनम् ।। तेभ्यस्तु सुमहदुःखं क्रोधाद्विष्णुः प्रयच्छति । उन्मत्तकेन ये मूढा पूजयन्ति त्रिविक्रमम् उन्मादं प्रबलं तेषां ददाति गरुडध्वजः। काञ्चनी मालतीपुष्पैः ये यजन्ति सुरेश्वरम्॥
दारिद्रयदुःखं बहुलं तेभ्यो विष्णुः प्रयच्छति ।
गिरिकर्णिकया विष्णुं ये यजन्त्यबुधाः नराः ॥ तेषां कुलक्षयं घोरं कुरुते मधुसूदनः । अक्षतैरर्चयेद्विष्णुं चक्राङ्कप्रतिमासु वा॥ दारिद्रयदुःखं बहुलं क्रोधाद्विष्णुः प्रयच्छति । आदौ पादद्वयं पूज्य गन्धपुष्पैर्यथोचितैः ततो वक्षःस्थलं विष्णोः पूजयेन्मस्तकं ततः । ततो देवं नमस्कृत्य परिवारान्प्रपूजयेत् ॥ प्रागादिषु च पत्रेषु हृदयादिचतुष्टयम् । वहिनैमृतवाय्वीश कोणेष्वस्त्रं प्रपूजयेत् ॥
वासुदेवं यजेत्प्राच्यां दक्षे संकर्षणं यजेत् । प्रद्युम्नं तु यजेत्याच्या प्रतीच्यामनिरुद्धकम् ।। वह्नौ शान्ति यजेद्विद्वान् श्री यजेद्राक्षसे दिशि । वायौ सरस्वतीं यष्ट्वा रौद्रकोणे रतिं यजेत् ॥