SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पीठपूजाविधानवर्णनन् ३०७ जाजीगन्धलवङ्गादि निक्षिपेन्मधुपर्कके । स्थापयेत्स्नानपात्राणि पयोदधिघृतमधु ॥ शर्कराचोष्णवारीणि रत्नस्वर्णोदकानि च ॥ पीठपूजा आसाद्य मूलमन्ोण पीठपूजामुपक्रमेत् । देवस्य दक्षिणेभागे मण्डूकं वामपर्श्वके । कालाग्निरुद्रं संपूज्य पीठस्याधः क्रमात्ततः । आधाररूपिणी शक्तिं मूलप्रकृतिमेव च । कु(कू)मशेषं वराहं च पृथिवीं क्षीरसागराम् । श्वेतद्वीपं च गन्धाद्यः चतुर्थ्यन्तैः स्वनामभिः ।। संपूज्य शुद्धिमन्वणं निर्मितं चतुरश्र(स्र)कम् । चतुर्दाराणिसंपूज्य द्वारपालान्क्रमाद्यजेत् कबाटद्वितयं यष्ट्वा गेहालीवास्तुकां यजेत् । देवस्य वामभागे तु गुरुरूपं हरिं यजेत्॥ आग्नेयपीठादिगणे गुरुं दुर्गा सरस्वतीम् । क्षेत्रपालं समभ्यर्च्य ब्रह्मादीनपि तेषु वै ॥ धर्मज्ञानं च वैराग्यमैश्वर्यं च स्वनामभिः । प्रागादिषु च पादेपु अधर्माज्ञानकैः क्रमात् अवैराग्यमनैश्वर्यमधोशेपासनंयजेत् । ततोपरि महापद्म ततोऽप्याग्नेयमण्डलम् ॥ सोमबिम्बं रवेविम्बं सत्वादिपु गुणत्रयम् । अग्न्यादिविम्वत्रिनये व्याप्तञ्च परमात्मकम अन्तरान्तं ततो यष्ट्वा प्रागादिपु दलैम्तथा । विमलोत्कर्पिणी ज्ञानं क्रियायोगा स्तथैव च ।। प्रज्ञाधीरा तथा सत्या पद्ममध्येऽप्यनुक्रमात् । नामभिः पूजनीयास्ताः चतुर्थ्यन्तैस्तथा हरिम् ।। शालग्रामे च तं देवं पट्टे मन्त्रादिकल्पिते । हृत्पद्म संस्थितं देवं स्थिरविद्युल्लतानिभम् ।। नानारत्नप्रतीकाशमूर्णराजिविराजितम् । घण्टानिनादसंयुक्त नादान्ते च समुद्भवम् ।। द्वादशान्तं ततो नीत्वा मन्त्रस्थं तं तथात्मना । चिदानन्दमये देवे ध्यात्वैकं वा प्रभेदतः तस्माद्विनिर्गतं देवं मन्त्रमूर्तिमयं परम् । प्रस्फुरत्तारकाकारं ध्यात्वा भ्रूमध्यसंस्थितम्॥ पुनरञ्जलिनाऽऽवाह्य मूलमन्त्रोण रेचयेत् । विम्बस्य हृदयाम्भोजे देवस्थापनमुद्रया ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy