________________
लौगाक्षिस्मृतिः ... हृदये च तथा शीर्षे शिखायां कवचे न्यसेत् ।
, दशदिक्ष्वपि विन्यासात् ध्यायेन्नारायणं हृदि ॥ अर्चयेद्गन्धपुष्पायः धूपदीपैर्मनोहरैः। ओं क्रुद्धोल्काय स्वाहेति हृदयायेति च क्रमः॥
गन्धाक्षतैः स्वमात्मानं पुष्पैः पञ्चभिरर्चयेत् ।
पीतवस्त्राम्बुना प्रोक्ष्य कुर्यात्तु जलशोधनम् ॥ सौवर्णरजतं तानं मृद्भाण्डं स्वस्तिकासनम् । देवस्य दक्षिणे स्थाप्य गायत्र्या पूरयेजलम् प्रणवेनापि मन्त्रैर्वा पूरयेद्धृदयादिभिः । गङ्ग च यमुने चैव गोदावरि सरस्वति ॥ .. .. नर्मदेसिन्धुकावेरि जलेऽस्मिन्सनिधिं कुरु ।
गङ्गादि चैवाह्यावाह्य गन्धपुष्पाणि निक्षिपेत् ॥ धेनुमुद्रां महामुद्रां दर्शोन्मूलमन्त्रतः ।
शङ्खमन्त्राम्बुनाप्रोक्ष्य पीठमन्त्रेण वारिणा । देवस्य पुरतः कुर्याश्चतुर(स)तु मण्डलम् जातवेदसमन्त्रेणाग्निबीजेन चानलम् । अभ्यर्च्य वायुबीजेन पीठे स्थाप्यैव पूजयेत् ॥
वायुमन्त्रेण चामन्त्र्य स्थाप्याब्जे सूर्यमण्डलम् ।
बीजेनैव च तं यष्ट्वा गायत्र्या हृदयादिभिः॥ गन्धपुष्पैरथाभ्यर्च्य मातृकाक्षरमालया । हकारादि नकारान्तं विपरीतेन मूलतः॥ जलं वकणबीजेन (१) पूरयित्वाऽभिमन्त्रयेत् । गारुडं घेनमुद्रां च महामुद्रां प्रदर्शयेत् ॥ गङ्गाद्यास्तत्र चावाह्य मन्त्रोणैव तु पूर्ववत् । हृदि प्रविष्टं विक्षिप्य शिरोमन्त्रेण मण्डनम् शिखायां चाचयेच्छङ्खनेगेणैव निरीक्षणम् । कवचेनावकुण्ठयाथ कुर्यादिग्बन्धमन्त्रतः
मूलेन दशधामन्य कुम्भेनाऽऽत्माभिषेचनम् । गन्धपुष्पाक्षतान्प्रोक्ष्य पीठं यजनसाधनम् ।। पाद्याादीनिपात्राणि पूरयेच्छङ्खवन्मुदा । पाच चाचमनीये च गन्धपुष्पाणि निक्षिपेत् ॥