________________
३०३
भीष्मतर्पणवर्णनम् मातूमुख्याश्च यास्तिस्रः मातामह्यादिकास्तथा ।
अञ्जलित्रयभागिन्यः सपत्नी जननी तु सा॥ नित्यद्वयञ्जलिगाप्रोक्ता सर्वतर्पण मात्रके । तस्याः प्रत्याब्दिके श्राद्ध परेऽह्नि तिलतर्पणे सैवत्र्यञ्जलिगातत्र मात्रे ज्ञेया विचक्षणैः । एतत्तर्पणतुल्यानि पुनरन्यानिकानिचित्॥ सन्त्येव तर्पणान्यत्र कर्तव्यानि महात्मभिः । तत्राद्यमेकं कथितं यमतर्पणसंज्ञकम् ।। तदुत्सवचतुर्दश्यां तत्कार्य धर्मकांक्षिभिः । कृष्णाङ्गारकवारेच तत्कार्य स्याद्यमक्रतौ॥ श्लोकरैतैनमस्कारकरणात्परमेव तत् । यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय ते नमः । चतुर्दश्यां तु मन्त्रस्य पदैरेतैस्तु तर्पणम् ॥ तर्पयामीति सर्वत्र द्वितीयान्तैः क्रमाचरेत् । एकैकेन तिलैर्मिश्रान् दद्यात्त्रीनुदकाञ्जलीन् यज्ञोपवीतिनाकुर्यात्प्राचीनावीतिनाऽपि वा। देवत्वं च यमत्वं च यमस्यास्ति द्विरूपता
यमोनिहन्ता पितृधर्मराजः वैवस्वतो दण्डधरश्च कालः ।
प्रेताधिपो दत्तकृतानुसौरिः कृत्यं च सर्वमसकृजपन्ति । यत्र कचन नद्यां वै स्नात्वा कृष्णचतुर्दशीम् । तत्सर्व धर्मराजं तं तर्पयित्वा विचक्षणः निखिलेभ्यश्च पापेभ्यो मुच्यते नात्र संशयः । एवमेव पुनर्माघसप्तम्या कृष्णपक्षके ।।
भीष्मतर्पणम् अष्टमीदिवसे चैव भीष्मतर्पणमाचरेत् । सप्तम्यादिषु पुण्येषु दिवसेष्वत्र पञ्चसु ॥ दद्यात्प्रदद्याद्भीष्माय तर्पणं प्रतिवत्सरम् । तेन तर्पणमात्रेण सहस्रद्विजभोजने । यत्फलं कथितं सद्भिस्तदवाप्नोत्यसंशयः । मन्त्रोणानेन कुर्वीत तर्पणं तञ्च पण्डितः ।। वैयाघ्रपादगोत्राय साङ्कृतिप्रवराय च । गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम् अपुत्राय ददाम्येतत्सलिलं भीष्मवर्मणे । महात्मने ब्रह्मण्याय तदीयदिनपञ्चके ।।
मन्त्रोणानेन सलिलं दद्याद्भीष्माय भक्तितः । तावता कृतकृत्योऽयं नित्यश्रीको भवेद्धृ वम् ।।